________________
खम्
'॥। ११७॥
Jain Education Intern
पालयन् पितुरादेशं जीवितत्र्यमिवात्मनः । स्वदासेरमिवामुष्णात् स राजगृहपत्तनम् || १४ || तदा च नगरग्रामाकरेषु विहरन् क्रमात् । चतुर्दशमहासाधुसहस्रपरिवारितः ।। १५ ।। सुरैः संचार्यमाणेषु स्वर्णाम्भोजेषु चारुषु । न्यस्यन् पदानि तत्रागाद्वीरवरमतीर्थकृत् ॥ १६ ॥ व्यन्तरैरसुरैज्योतिषिकैर्वैमानिकैरपि । सुरैः समवसरणं चक्रे जिनपतेस्ततः || १७ || आयोजनविसर्पिण्या सर्वभाषानुयातया । भारत्या भगवान् वीरः प्रारेभे धर्मदेशनाम् ॥ १८ ॥ तदानीं रौहिणेयोऽपि गच्छन् राजगृहं प्रति । मार्गान्तराले समवसरणाभ्यर्णमाययौ ।। १६ ।। एवं स चिन्तयामास पथाऽनेन व्रजामि चेत् । शृणोमि वीरवचनं तदाज्ञा भज्यते पितुः ।। २० ।। न चान्यो विद्यते पन्था भवत्वेवं विमृश्य सः । कर्णौ पिधाय पाणिभ्यां द्रुतं राजगृहं ययौ ॥ २१ ॥ एवमन्वहमप्यस्य यातायातकृतोऽन्यदा । उपसमवसरणं पादेऽभज्यत कण्टकः ।। २२ ।। औत्सुक्यगमनाद्गाढमग्नं पादे स कण्टकम् | अनुध्धृत्य समुद्धर्त्तुं न शशाक क्रमात् क्रमम् || २३ || नास्त्युपायोऽपरः कोऽपीत्याकृष्य श्रवणात्करम् । कर्षन् कण्टकम - श्रीदिति विश्वगुरोर्गिरम् ॥ २४ ॥ महीतलास्पर्शिपादा निर्निमेषविलोचनाः । अम्लानमान्या निःस्वेदा नीरजोऽङ्गाः सुरा इति || २५ || बहुश्रुतमिदं धिग् धिगित्याशुध्धृतकण्टकः । पिधाय पाणिना कर्णं तथैवापस - सारसः || २६ ॥ अथान्वहं मुष्यमाणे पत्तने तेन दस्युना । उपेत्य श्रेणिकं श्रेष्ठिश्रेष्ठा व्यज्ञपयन्निति ॥ २७ ॥ त्वयि शासति देवान्यन्न भयं द्रविणं तु नः । आकृष्य गृह्यते चौरैरदृष्टेटकैरिव ॥ २८ ॥ बन्धूनामिव तेषां तु गृहीतः पीडया ततः । सकोपाटोपमित्यूचे नृपतिर्दण्डपाशिकम् ॥ २६ ॥ किं चौरीभूय दायादीभूय वा मम (१) वैमानिकैज्योतिषि कैर्व्यन्तरैरसुरैरपि इति वा पाठः ।
For Personal & Private Use Only
मारुतर
द्वितीय:
प्रकाश: ।
॥११७॥
www.jainelibrary.org