________________
तृतीयः
योग- तथा देव्याश्चन्द्रपानदोहदोऽभूत, चन्द्रसमवर्णश्च भगवानिति चन्द्रप्रभः । ८। शोभनो विधिः सर्वत्र कौशलमस्येतिरे शास्त्रम् । सुविधिः, तथा गर्भस्थे भगवति जनन्यप्येवमिति सुविधिः, पुष्पकलिकामनोहरदन्तत्वात् पुष्पदन्त इति द्वितीयं
प्रकाशा नाम ।। सकलसत्त्वसन्तापहरणाच्छीतलः, तथा गर्भस्थे भगवति पितुः पूर्वोत्पनाचिकित्स्यपित्तदाहो ॥२२॥
जननीकरस्पर्शादुपशान्त इति शीतलः । १० । सकलभुवनस्यापि प्रशस्यतमत्वेन श्रेयान्, श्रेयांसावंसावस्येति । | पृषोदरादित्वात श्रेयांसो वा, तथा गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताधिष्ठितशय्या जनन्या आक्रान्तेति * श्रेयो जातमिति श्रेयांसः । ११ । वसवो देवविशेषाः, तेषां पूज्यो वसुपूज्यः, प्रज्ञादित्वादणि वासुपूज्यः, तथा गर्भस्थेऽस्मिन् वसु हिरण्यं तेन वासवो राजकुलं पूजितवानिति वासुपूज्यः, वसुपूज्यस्य राज्ञोऽयमिति वा " तस्येदम्" ॥६।३। ६०॥ इत्यणि वासुपूज्यः । १२ । विगतमलो विमलः, विमलानि वा ज्ञानादीन्यस्येति । विमलः, तथा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विमलः । १३ । अनन्तकाशान् जयति, अनन्तैर्वा *ज्ञानादिभिर्जयति अनन्तजित्, तथा गर्भस्थे जनन्या अनन्तरत्नदाम दृष्टम्, जयति च त्रिभुवनेऽपीति अनन्तजित्,
भीमो भीमसेन इति न्यायादनन्त इति । १४ । दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तथा गर्भस्थे जननी दानादिधर्मपरा जातेति धर्मः । १५ । शान्तियोगात्, तदात्मकत्वात्, तत्कर्तृत्वाद्वा शान्तिरिति, तथा गर्भस्थे पूर्वोत्पन्नाशिवशान्तिरभूदिति शान्तिः । १६ । कुः पृथ्वी, तस्यां स्थितवानिति निरुक्तात् कुन्थुः, तथा गर्भस्थे जननी रत्नानां कुन्थु राशिं दृष्टवतीति कुन्थुः।१७।।
सर्वो नाम महासत्वः कुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः ॥१॥
१
॥
॥२२
Jain Education inter
For Personal & Private Use Only
www.jainelibrary.org