________________
इति वचनादरः। तथा गर्भस्थे जनन्या स्वप्ने सर्वरत्नमयोऽरो दृष्ट इत्यरः । १८ । परीषहादिमन्त्रजयानि-| | रुक्तान्मदिः, तथा गर्भस्थे मातुः एकऋतौ सर्वर्तुसुरभिकुसुममान्यशयनीयदोहदो देवतया पूरित इति मलिः । १६ । मन्यते जगतस्त्रिकालावस्थामिति मुनिः " मनेरुदेतौ चास्य वा" (उणा-६१२) इति इप्रत्यये - उपान्त्यस्यात्वम्, शोभनानि व्रतान्यस्येति सुव्रतः, मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः, तथा गर्भस्थे जननी मुनिवत्सुव्रता जातेति मुनिसुव्रतः । २० । परीषहोपसर्गादिनामनाद् "नमेस्तु वा" ( उणा-६१३ ) इति विकल्पेनोपान्त्यस्येकाराभावपक्षे नमिः, तथा गर्भस्थे भगवति परचक्रनृपैरपि प्रणतिः कृतेति नमिः । २१ । | धर्मचक्रस्य नेमिवनेमिः, तथा गर्भस्थे भगवति जनन्या रिष्टरत्नमयो महानेमिदृष्ट इति रिष्टनेमिः, अपश्चिमादिशब्दवत् नजपूर्वत्वेऽरिष्टनेमिः । २२ । पश्यति सर्वभावानिति निरुक्तात् पार्श्वः, तथा गर्भस्थे जनन्या निशि
शयनीयस्थयाऽन्धकारे सर्पो दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति पावः, पार्थोऽस्य वैयावृत्यकरस्तस्य *नाथः पार्श्वनाथः, भीमो भीमसेन इतिवत् पार्श्वः। २३ । उत्पत्तेरारभ्य ज्ञानादिभिर्वर्धत इति वर्धमानः, तथा
भगवति गर्भस्थे ज्ञातकुलं धनधान्यादिभिर्वर्धत इति वर्धमानः । २४ । 41 विशेषाऽभिधानार्थसंग्राहिकाश्चमाः श्रीमद्रबाहुस्वामिप्रणीता गाथाःऊरूसु उसहलञ्छणमुसमं सुमिणम्मि तेण उसहजिणो। अक्खेसु जेण अजिबा जणणी अजिओ जिणो तम्हा ॥१॥
(१) उर्वोर्ऋषभलाञ्छनमृषभं स्वप्ने तेनर्षभजिनः । अक्षेषु येनाजिता जननी अजितो जिनस्तस्मात् ॥१॥
in Education Internal
For Personal & Private Use Only
www.jainelibrary.org