________________
उसममजिअं च वंदे संभवमभिनंदणं च सुमई च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुष्पदंतं सीअल सिजंस वासुपुजं च । विमलमणंतं च जिणं धम्म संतिं च वंदामि ॥३॥ कुंथु अरं च मलिं वन्दे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्टनेमि पासं तह बद्धमाणं च ॥ ४॥
समुदायार्थः सुगमः । पदार्थस्तु विभज्यते, स च सामान्यतो विशेषतश्च । तत्र सामान्यतः ऋषति गच्छति परमपदमिति ऋषभः, “ उदृत्वादो"॥८।१।१३१ ॥ इत्युत्वे उसहो । वृषभ इत्यपि, वर्षति सिञ्चति । देशनाजलेन दुःखाग्निना दग्धं जगत , इत्यस्यान्वर्थः, " वृषभे वा वा" ॥८।१।१३३ ॥ इति वकारेण ऋत उत्वेऽस्यापि उसहो । विशेषतस्तु ऊोवृषभो लाञ्छनमभूद्भगवतः, जनन्या च चतुर्दशानां स्वप्नानामादावृषभो दृष्टस्तेन ऋषभो वृषभो वा । १ । परीपहादिभिर्न जित इति अजितः, तथा गर्भस्थे भगवति जननी द्यूते राज्ञा न जिता इत्यजितः । २ । सम्भवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, शं सुखं भवत्यस्मिन् स्तुते इति शम्भवो वा, तत्र “शषोः सः" ॥८।१।२६० ॥ इति सत्वे सम्भवः, तथा गर्भगतेऽप्यस्मिन् अभ्यधिकसस्यसम्भवात्सम्भवः। ३ । अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः, तथा गर्भात्प्रभृति एवाऽभीक्ष्णं शक्राघभिनन्दनात् अभिनन्दनः । ४ । सु शोभना मतिरस्येति सुमतिः, तथा गर्भस्थे जनन्याः सुनिश्चिता मतिरभूदिति सुमतिः ।। निष्पकतामङ्गीकृत्य पद्मस्येव प्रभा यस्याऽसौ पद्मप्रभः, तथा पद्मशयनदोहदो मातुर्देवतया पूरित इति, पद्मवर्णश्च भगवानिति पद्मप्रभः । ६ । शोभनाः पार्था अस्येति सुपार्श्वः, तथा गर्भस्थे भगवति जनन्यपि सुपाया जातेति सुपार्श्वः । ७। चन्द्रस्येव प्रभा ज्योत्स्ना सौम्यलेश्याविशेषोऽस्येति चन्द्रप्रभः,
For Personal & Private Use Only