SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥२२४॥ Jain Education Interna *+ *० स्तुतिं पठति, अन्ये तु कायोत्सर्गस्थिता एव शृण्वन्ति यावत् स्तुतिसमाप्तिः, ततः सर्वेऽपि नमस्कारेण पारयन्तीति तदनन्तरं तस्यामेवावसर्पिण्यां ये भारते वर्षे तीर्थकृतो अभूवन् तेषामेवैकक्षेत्रनिवासिनामासन्नोपकारित्वेन कीर्तनाय चतुर्विंशतिस्तवं पठति, पठन्ति वा । तथा लोगस्स उज्जो गरे धम्मवित्थयरे जिणे । अरिहंते कित्तइस्सं चउवीसंपि केवली ॥ १ ॥ अरिहंत इति विशेष्यपदम् अर्हत उक्तनिर्वचनात् (न्), कीर्तयिष्ये नामोच्चारणपूर्वकं स्तोध्ये, ते च राज्याद्यवस्थासु द्रव्यान्तो भवन्तीति भावार्हत्त्वप्रतिपादनायाह - केवलिन उत्पन्न केवलज्ञानाद्भावाईत इत्यर्थः अनेन ज्ञानातिशय उक्तः; तत्संख्यामाह - चतुर्विंशतिमपि, अपिशब्दादन्यानपि किंविशिष्टान् ? लोकस्योदथोतकरान् लोक्यते प्रमाणेन दृश्यत इति लोकः पञ्चास्तिकायात्मकस्तस्योद्दयौत करणशीलान्, केवलालोकदीपेन सर्वलोकप्रकाशकरणशीलान् इत्यर्थः । ननु केवलिन इत्यनेनैव गतार्थमेतल्लोकोदयोतकरणशीला एव हि केवलिनः । सत्यम्, विज्ञान | द्वैत निरा से नोहयोतकराः, उदयोत्यस्य भेददर्शनार्थम्, लोकोदयोतकरत्वं च तत्स्तावकानामुपकाराय, न चानुपकारिणः कोऽपि स्तौति इत्युपकारकत्वप्रदर्शनायाह- धर्मतीर्थकरान् धर्म उक्तस्वरूपः तीर्य्यतेऽनेन तीर्थं धर्मप्रधानं तीर्थं धर्मतीर्थं धर्मग्रहणाद् द्रव्यतीर्थस्य नद्यादेः शाक्यादिसम्बन्धिन अधर्मप्रधानस्य परिहारः, तत्करणशीला धर्मतीर्थकराः तान् सदेवमनुजासुरायां पर्षदि सर्वभाषापरिणामिन्या वाचा धर्मतीर्थप्रवर्तकानि - त्यर्थः, अनेन पूजातिशयो वागतिशयश्वोक्तः । श्रपायापगमातिशयमाह – जिनान् रागद्वेषादिजेतृनित्यर्थः । यदुक्तं कीर्तयिष्यामीति तत्कीर्तनं कुर्वन्नाह - For Personal & Private Use Only **-08-0-K XXX तृतीयः प्रकाशः ॥२२४॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy