SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ | तन्निमित्तं । ननु साधुश्रावकयोर्बोधिलाभोऽस्त्येव तकि सतस्तस्य प्रार्थनया बोधिलाभमलो मोक्षोऽप्यनभिलपणीय . एव, उच्यते-क्लिष्टकर्मोदयवशेन बोधिलाभस्य प्रतिपातसम्भवाद जन्मान्तरे च तस्यार्थ्यमानत्वानिरुपसोऽपि तद्वारेण प्रार्यत एवेति युक्तोऽनयोरुपन्यासः । अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रसाधनायालमित्याह-सद्धाए मेहाए धिईए धारणाए अणुप्पेहाए चड्रमाणीए ठामि काउस्सग्ग-श्रद्धा मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्योदकप्रसादकमणिबच्चेतसः प्रसादजननी, तया श्रद्धया, न तु बलाभियोगादिना, एवं मेधया न जडत्वेन, मेधा च सच्छास्त्रग्रहणपटुः पापश्रुतावज्ञाकारी ज्ञानावरणीयक्षयोपशमजश्चित्तधर्मः, अथवा मेधया मर्यादावर्तितया, नासमञ्जसत्वेन । एवं धृत्या मनःसमाधिलक्षणया, न रागद्वेषाद्याकुलतया । एवं धारणया अर्ह गुणाविस्मरण रूपया, न तु तच्छून्यतया । एवमनुप्रेक्षयाऽर्हद्गुणानामेव मुहुर्मुहुरनुस्मरणेन, न | तद्वैकल्येन वर्धमानतयेति श्रद्धादिभिः प्रत्येकमभिसम्बध्यते । श्रद्धादीनां क्रमोपन्यासो लाभापेक्षया श्रद्धायां हि सत्यां मेधा तद्भावे धृतिस्ततो धारणा तदन्वनुप्रेक्षा वृद्धिरप्यासामेव । तिष्ठामि करोमि कायोत्सर्ग। ननु प्राकरोमि कायोत्सर्गमित्युक्तं साम्प्रतं तिष्ठामीति किमर्थमुच्यते ?, सत्यं, सत्सामीप्ये सद्वत्प्रत्ययो भवतीति करोमि करिष्यामि इति क्रियाऽभिमुख्यं पूर्वमुक्तमिदानीं त्वासन्नतरत्वात् क्रियाकालनिष्ठाका लयोः कथञ्चिदभेदात् तिष्ठाम्यवाहमिति । किं सर्वथा तिष्ठामि कायोत्सर्ग? नेत्याह-अन्नत्थ ऊससिएणमित्यादि व्याख्यातं पूर्व । कायोत्सर्गश्चाष्टोच्छ्वासमात्रो न त्वत्र ध्येयनियमोऽस्ति । कायोत्सर्गान्ते च यद्येक एव ततो नमो अरिहंताणमिति नमस्कारेण पारयित्वा यत्र चैत्यवन्दनां कुर्वन्नस्ति तत्र यस्य भगवतः सन्निहितं स्थापनारूपं तस्य स्तुतिं पठति । अथ वहवस्तत एक एव in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy