SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥ ८६ ॥ Jain Education Internati 1084 *********** --. द्धूतपताकाञ्चलचञ्चलम् || ६६ || बहिरङ्गान् द्विषोऽजैषीर्य्यथा साधयितुं महीम् । अन्तरङ्गान् जय तथा मोक्षसाधनहेतवे ।। ६७ ।। गृहाण यतिधर्मं तत्पृथक्कृत्य त्यजापरम् । राजहंसो हि गृह्णाति विभज्य क्षीरमम्भसः || ॥ ६८ ॥ ब्रह्मदत्तस्ततोऽवादीद् दिष्या दृष्टोऽसि बान्धव । इयं तवैव राज्यश्रीर्भुव भोगान् यथारुचि ॥ ६६ ॥ तपसो हि फलं भोगाः सन्ति ते किं तपस्यसि । उपक्रमेत को नाम स्वतः सिद्धे प्रयोजने ॥ ७० ॥ मुनिरूचे ममाप्यासन् धनदस्येव सम्पदः । मया वास्तृणवत्यक्ता भवभ्रमण भीरुणा ॥ ७१ ॥ सौधर्मात् क्षीणपुण्योऽस्मिन्नागतोऽसि महीतले । इतोऽपि क्षीणपुण्यः सन् राजन्मा गा अधोगतिम् ।। ७२ ।। आय् देशे कुले श्रेष्ठे मानुष्यं प्राप्य मोक्षदम् | साधयस्यमुना भोगान् सुधया पायुशौचवत् ॥ ७३ ॥ खर्गाच्च्युत्वा क्षीणपुण्यौ भ्रान्तावावां कुयोनिषु । यथा तथा स्मरन् राजन् किं बाल इव मुह्यसि १ ॥ ७४ ॥ तेनैवं बोध्यमानोऽपि नाबुद्ध वसुधाधवः । कुतः कृतनिदानानां बोधिवीजसमागमः ॥ ७५ ॥ तमबोध्यतमं बुध्ध्वा जगाम मुनिरन्यतः । कालादिष्टाहिना दष्टे कियत्तिष्ठन्ति मान्त्रिकाः || ७६ ।। घातिकर्म्मक्षयात्प्राप्य केवलज्ञानमुत्तमम् । भवोपग्राहि कर्माणि हत्वा प्राप परं पदम् ॥ ७७ ॥ ब्रह्मदत्तोऽपि संसारसुखानुभवलालसः । सप्तातिवाहयामास शतानि शरदां क्रमात् ॥ ७८ ॥ कदाचित्प्रापरिचितो द्विजः कश्चिञ्जगाद तम् । चक्रवर्त्तिन् स्वयं भुङ्गे यत्तन्मे देहि भोजनम् ॥ ७६ ॥ ब्रह्मदत्तोऽप्यवोचत्तं मदन्नं द्विज दुर्जरम् । चिरेण जीर्य्यमाणं तु महोन्मादाय जायते ॥ ८० ॥ कदर्यो ऽस्यन्नदानेऽपि धिक्त्वामिति वदन् द्विजः । अभोजि सकुटुम्बोऽपि भूभुजा भोजनं निजम् ॥ ८१ ॥ निशायामथ विप्रस्य बीजादिव तदोदनात् । शतशाखः स्मरोन्मादतरुः प्रादुरभूभृशम् ॥ ८२ ॥ श्रज्ञातजननीजाभिस्नुषाव्यतिकरं मिथः । पशुवत्सहपुत्रोऽपि For Personal & Private Use Only *-*-*-*-03-103 द्वितीयः प्रकाशः । ॥ ८६ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy