________________
Jain Education Internati
14/0/+K+*****CKK19
कुतुपादिस्थस्य घृतादेर्दानार्थ यत् मृत्तिकाद्यपनयनं तदुद्भिन्नम् ॥ १२ ॥ यदुपरिभूमिकातः शिक्यादेर्भूमिगृहाद्वा आकृष्य साधुभ्यो दानं तन्मालापहृतम् ॥ १३ ॥ यदाच्छिद्य परकीयं हठात् गृहीत्वा स्वामी प्रभुश्चौरो वा ददाति तदाच्छेद्यम् ॥ १४ ॥ गोष्ठी भक्तादि सर्वैरदत्तमननुमतं वा एकः कश्चित्साधुभ्यो ददाति तदनिसृष्टम् ॥ १५ ॥ स्वार्थमधिश्रयणे सति साधुसमागमश्रवणात्तदर्थं पुनर्यो धान्यादिवापः सोऽभ्यवपूरकः ॥ १६ ॥ उत्पादनादोषा अपि षोडश ते च साधुप्रभवाः । तद्यथा
धाई दुई निमित्ते जीववणीवगे तिमिच्छा य । कोहे माणे माया लोभे अ हवन्ति दस एए ॥ १ ॥ पुविपच्छासंथवविजामन्ते श्र चुसजोए य । उप्पायखाइ दोसा सोलसमे मूलकम्मे य ॥ २ ॥ बालस्य चीरमञ्जनमण्डनक्रीडनाङ्कारोपण कर्मकारिण्यः पञ्च धात्र्यः एतासां कर्म भिक्षार्थं कुर्वतो मुनेर्धात्रीपिण्डः ॥ १ ॥
मिथः सन्देशकथनं दूतीत्वं तत्कुर्वतो भिक्षार्थ दूतीपिण्डः ॥ २ ॥
श्रतीतानागतवर्त्तमानकालेषु लाभालाभादिकथनं निमित्तं तद्भिदार्थं कुर्वतो निमित्तपिण्डः ॥ ३ ॥ जातिकुलगण कर्म्मशिल्पादिप्रधानेभ्य आत्मनस्तत्तद्गुणत्वारोपणं भिक्षार्थमाजीवपिण्डः ॥ ४ ॥
(१) धात्री दूती निमित्तं आजीववनीपके चिकित्सा च । क्रोधो मानो माया लोभश्च भवन्ति दश एते ॥ (२) पूर्वपश्चात्संस्तवविद्यामन्त्रं च चूर्णयोगश्च । उत्पादनाया दोषाः षोडशो मूलकर्म च ॥
For Personal & Private Use Only
←**@*••*0;+→→**
www.jainelibrary.org