SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम्। ॥४५॥ पापाय विकल्प्य यति मनसि कृत्वा सचित्तस्याचित्तीकरणमचित्तस्य वा पाको निरुक्तादा प्रथमः उद्देशः साध्वर्थ सङ्कल्पः स प्रयोजनमस्य औद्देशिकं यत्पूर्वकृतमोदनमोदकक्षोदादि तत्साधूद्देशेन दध्यादिना । प्रकाशः। गुडपाकेन च संस्कुर्वतो भवति ॥ २॥ आधार्मिकावयवसम्मिश्रं शुद्धमपि यत्तत्पूतिकर्म शुचिद्रव्यमिवाशुचिद्रव्यसम्मिश्रम् ॥३॥ यदात्मार्थ साध्वर्थ चादित एव मिश्रं पच्यते तन्मिश्रम् ॥४॥ साधुयाचितस्य क्षीरादेः पृथक्त्य स्वभाजने स्थापनं स्थापना ॥५॥ कालान्तरभाविनो विवाहादेरिदानी सभिहिताः साधवः सन्ति तेषामप्युपयोगे भवत्विति बुद्ध्या इदानीमेव करणं समयपरिभाषया प्राभृतिका, सन्निकृष्टस्य विवाहादेः कालान्तरे साधुसमागमनं सञ्चिन्त्योत्कर्षणं वा ॥६॥ यदन्धकारव्यवस्थितस्य द्रव्यस्य वहिप्रदीपमण्यादिना भित्यपनयनेन वा, बहिनिष्कास्य द्रव्यधारणेन वा, प्रकटकरणं तत्प्रादुष्करणम् ॥७॥ यत्साध्वर्थ मूल्यन क्रीयते तत्क्रीतम् ॥८॥ यत्साध्वर्थमन्त्रादि उद्यतकं गृहीत्वा दीयते तत्प्रामित्यकम् ॥ ६ ॥ स्वद्रव्यमर्पयित्वा परद्रव्यं तत्सदृशं गृहीत्वा यद्दीयते तत्परिवर्तितम् ॥ १० ॥ गृहग्रामादेः साध्वर्थ यदानीतं तदभ्याहृतम् ॥ ११॥ (१) दूरनयनम्, विलम्बेन करणमिति यावत् ।। (२) उद्धारके ॥ ॥४५॥ Jan Education For Personel Private Use Only www. library.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy