SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ द्वितीय योग- शास्त्रम् प्रकाश ॥३२॥ स्तथाग्रासनभोजनम् । दीनारो दक्षिणायां च याच्य इत्यन्वशात्पतिम् ॥ ३७॥ ययाचे तत्तथा विप्रो राजाऽदात्तद्वदन्निदम् । करकोऽब्धिमपि प्राप्य गृह्णात्यात्मोचितं पयः ॥३८॥ प्रत्यहं तत्तथा लेभे प्राप्य सम्भावनां च सः। पुंसां राजप्रसादो हि वितनोति महार्घताम् ॥ ३९ ॥राजमान्योऽयमित्येष नित्यं लोकैन्यमन्त्र्यत । यस्य प्रसन्नो नृपतिस्तस्य कः स्यान्न सेवकः ॥४०॥ अग्रे भुक्तं चालयित्वा बुभुजेऽनेकशोऽप्यसौ । प्रत्यहं दक्षिणालोभाद्धिग्धिग्लोभो द्विजन्मनाम् ॥ ४१॥ उपाचीयत विप्रोऽसौ विविधैर्दक्षिणाधनैः । प्रासरत्पुत्रपौत्रैश्च पादैवि वद्रुमः ॥४२॥ स तु नित्यमजीर्णान्नवमनावगै रसैः । आमैरभूषितत्वगश्वत्थ इव लाक्षया ॥ ४३ ॥ कुष्ठी क्रमेण सञ्जज्ञे शीर्णघ्राणांहिपाणिकः । तथैवामुक्त राजाग्रे सोऽतृप्तो हव्यवाडिव ॥ ४४ ॥ एकदा मन्त्रिभिर्भूपो विज्ञप्तो देव कुष्ठ्यसौ । सञ्चरिष्णुः कुष्ठरोगो नास्य योग्यमिहाशनम् ।। ४५ ॥ सन्त्यस्य नीरुजः पुत्रास्तभ्यः कोऽप्यत्र भोज्यताम् । व्यङ्गितप्रतिमायां हि स्थाप्यते प्रतिमान्तरम् ॥ ४६॥ एवमस्त्विति राज्ञोक्तेऽमात्यौर्विप्रस्तथोदितः । स्वस्थानेऽस्थापयत्पुत्रं गृहे तस्थौ स्वयं पुनः ॥ ४७॥ मधुमण्डकवक्षुद्रमक्षिकाजालमालितः। पुत्रैहादपि बहिः कुटीरक्षेपि स द्विजः॥४८॥ बहिःस्थितस्य तस्याज्ञा पुत्रा अपि न चक्रिरे । दारुपात्रे ददुः किन्तु शुनकस्येव भोजनम् ।। ४६ ।। जुगुप्समाना वध्वोऽपि तं भोजयितुमाययुः । तिष्ठिवुर्वलितग्रीवं मोटनोत्पुटनासिकाः ॥ ५० ॥ अथ सोऽचिन्तयद्विप्रः श्रीमन्तोऽमी मया कृताः । एभिर्मुक्तोऽस्म्यनादृत्य तीर्णाम्भोभिस्तरण्डवत् ॥ ५१॥ तोषयन्ति न वाचापि रोषयन्त्येव माममी । कुष्ठो रुष्टो न सन्तुष्टो भव्य इत्यनुलापिनः ॥ ५२ ॥ (१) घटः (२) वान्त्वा . ॥४२॥ Jain Education internat For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy