________________
॥२०॥ सोऽप्यूचे तां प्रिये नास्ति मम कुत्रापि कौशलम् । येन किञ्चिल्लभे कापि कलाग्राह्या यदीश्वराः ॥२१॥ उवाच सा च तं भद्रं गच्छ सेवस्व पार्थिवम् । पृथिव्यां पार्थिवादन्यो न कश्चित्कल्पपादपः॥ २२ ॥ तथेति प्रतिपद्यासौ नृपं पुष्पफलादिना । प्रवृत्तः सेवितुं विप्रो रत्नेच्छुरिख सागरम् ।। २३ ॥ कदाचिदथ कौशाम्बी चम्पेशेनामितैबेलैः। धनतुनेव मेधैद्यौररुध्यत समन्ततः ॥२४॥ सानीकोऽपि शतानीको मध्येकौशाम्बि तस्थिवान् । प्रतीक्षमाणः समयमन्तर्विलमिवोरगः ॥ २५ ॥ चम्पाधिपोऽपि कालेन बहुना सन्नसैनिकः। प्रावृषि स्वाश्रयं यातुं प्रवृत्तो राजहंसवत् ।। २६ ॥ तदा पुष्पार्थमुद्याने गतः सेडुक ऐक्षत । तं क्षीणसैन्यं प्रत्यूषे निष्प्रभोडुमिवोडपम् ॥२७।। तूर्णमेत्य शतानीकं व्यजिज्ञपदसाविदम् । याति क्षीणबलस्तेऽरिभग्नदंष्ट्र इवोरगः ॥२८॥ यद्यद्योत्तिष्ठसे तस्मै तदा ग्राह्यः सुखेन सः। बलीयानपि खिन्नः सन्नखिन्नेनाभिभूयते ॥ २६ ॥ तद्वचः साधु मन्वानो राजा सर्वाभिसारतः । निःससार शरासारसारनासीरदारुणः ॥३० ।। ततः पश्चादपश्यन्तो नेशुश्चम्पेशसैनिकाः। अचिन्तिततडित्पाते को वीक्षितुमपि क्षमः ॥ ३१ ॥ चम्पाधिपतिरेकाङ्गः कान्दिशीकः पलायितः । तस्य हस्त्यश्वकोशादि कौशाम्बीपतिरग्रहीत् ॥३२॥ हृष्टः प्रविष्टः कौशाम्बी शतानीको महामनाः । उवाच सेडुकं विप्रं ब्रूहि तुभ्यं ददामि किम् ॥३३॥ विप्रस्तमूचे याचिष्ये पृष्ट्वा निजकुटुम्बिनीम् । पर्यालोचपदं नान्यो गृहिणां गृहिणी विना ॥ ३४ ॥ भट्टः प्रहृष्टो भट्टिन्यै तदशेष शशंस सः । चेतसा चिन्तयामास सा चैवं बुद्धिशालिनी ॥ ३५ ॥ यद्यमुना ग्राहयिष्ये नृपाद्वामादिकं तदा । करिष्यत्यपरान्दारान्मदाय विभवः खलु ।। ३६ ॥ दिनं प्रत्येक औलोच
(१) खिन्नसैनिकः. २ बाणवृष्टया सारभूतं नासीरम्-अग्रसैन्यं तेन दारुणः. ३ दर्शनम् ।
in Education internatio
www.jainelibrary.org
For Personal & Private Use Only