SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ जन्तुरिति गम्यते, न मजेद् ब्रुडेद् भवसमुद्रे ॥ १२ ॥ ____ स्वाख्यातं धर्ममाह संयमः सूनृतं शौचं ब्रह्माकिञ्चनता तपः । क्षान्तिर्दिवमृजुता मुक्तिश्च दशधा स तु॥९३॥ ___ स तु धर्मो दशधा दशप्रकारः । तत्र संयमः प्राणिदया सप्तदशाविधः । तत्र पृथिव्यप्तेजोवायुवनस्पतिद्विविचतुष्पश्चेन्द्रियाणां मनोवाकायकर्मभिः करणकारणानुमतिभिश्च संरम्भसमारम्भारम्भवर्जनमिति नवधा । अजी वरूपाण्यपि पुस्तकादीनि दुःषमादोषात् प्रज्ञाबलहीनशिष्यानुग्रहार्थ यतनया प्रति लेखनाप्रमार्जनापूर्व धारयतोऽजीवसंयमः । तथा प्रेक्ष्य चक्षुषा दृष्ट्वा स्थण्डिलं बीजजन्तुहरितादिरहितं, तत्र श यनासनादीनि कुर्वीतेति प्रेक्षासंयमः। गृहस्थान् सावद्यव्यापारप्रसक्तानव्यापारणेनोपेक्षमाण स्योपेक्षासंयमः । प्रेक्षितेऽपि स्थण्डिले रजोहरणादिना प्रमृज्य शयनासनादीन् कुर्वतः स्थाण्डिलाच स्थण्डिलं संक्रामतः सचित्ताचित्तमिश्रासु पृथिवीषु रजोऽवगुण्ठितौ चरणौ प्रमायं गच्छतो वा प्रमार्जनासंयमः। भक्तपानादिकमनेषणीयं वस्त्रपात्रादिकं चानुपकारकं संसक्तं वा निर्जन्तुके स्थण्डिले परिष्ठापयतः परिष्ठापनासंयमः । मनसोऽभिद्रोहाभिमानेादिभ्यो निवृत्तिधर्मध्यानादिषु च प्रवृत्तिर्मनःसंयमः । वाचो हिंस्रपरुषादिवचोभ्यो निवृत्तिः शुभभाषायां च प्रवृत्तिाक संयमः। कायस्य धावनवगनादिभ्यो निवृत्तिः शुभक्रियासु च प्रवृत्तिः कायसंयम इति । एवं सप्तदशप्रकार: प्राणातिपातनिवृत्तिरूपः संयमः, यदाहुः Jain Education andel For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy