SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ चतवेः योगशास्त्रम् प्रकाशः। ॥३१६॥ पुढविदगअगणिमारुयवणस्सइबितिचउपणिदिअजीवे । पेहुप्पेहपमजणपरिट्ठवणमणोवईकाए ॥ १॥ तथा 'ऊनण् परिहाणे' अस्य धातोः सुष्ठु ऊन्यतेऽप्रियमात्राश्रयणं मितीक्रियते इति सून् , सून् च तदृतं च सूनृतं प्रियं सत्यं च । तच्च पारुष्य-पैशून्या-सभ्यत्व-चापला-विलत्व-विरलत्व-संभ्रान्तत्व-सन्दिग्धत्व ग्राम्यत्व-रागद्वेषयुक्तत्वो-पधावद्यविकत्थनपरिहारेण माधुर्योदार्यस्फुटत्वाभिजात्यपदार्थाभिव्याहाराहद्वचनानुसारार्थत्वार्थिजनभावग्राहकत्वदेशकालोपपनत्वयतमितहितत्वयुक्तं वाचनप्रच्छनप्रश्नव्याकरणादिरूपमिति मृपावादपरिहाररूपं सूनृतम् । शौचं संयम प्रति निरुपलेपा । सा चादत्तादानपरिहाररूपा । लोभात्तॊ हि परधनं जिघृतन संयम मलिनयति । लौकिका अप्याहु: सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् । योऽर्थेषु शुचिः स शुचिर्न मृद्वारिशुचिः शुचिः ॥ १॥ अशुचिर्हि भावकल्मपसंयुक्त इहामुत्र चाशुभं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते, इत्यदत्तादानपरिहाररूपं शौचम् । नवब्रह्मगुप्तिसनाथमुपस्थसंयमो ब्रह्म 'भीमो भीमसेनः' इति न्यायाद् ब्रह्मचर्य वृहत्वाद् ब्रह्मात्मा तत्र चरणं ब्रह्मचर्यमात्मारामतेत्यर्थः । तदर्थ गुरुकुलसेवनमपि ब्रह्मचर्यमित्यब्रह्मनिवृत्तिरूपं ब्रह्मचर्यम् । नास्य किश्चन द्रव्यमस्तीत्यकिश्चनस्तस्य भावोऽकिञ्चनता। उपलक्षणं चैतत, तेन शरीरधर्मोपकरणादिष्वपि निर्ममत्वमकिश्चनत्वम् । (१) पृथिवीदकाग्निमारुतवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियाजीवाः । प्रेक्षोप्रेक्षाप्रमार्जनपरिष्ठापनमनोवाककायाः ॥ १॥ Education tema For Personal & Private Use Only anw.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy