SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern शरीरमपि धारयन्तो मुनयो निर्ममत्वात् तत् परिग्रहरहिता भोजनादिकमपि संयमयात्रार्थं शकटाक्षलेपनवत् कुर्वन्ति न मूर्च्छया । उपकरणमपि च रजोहरणादिकं संयमरक्षार्थं वस्त्रपात्रादिकं च संयमशरीरपरित्राणार्थं धारयन्ति, न पुनर्लोभादिना इति निष्परिग्रहा एव । इति परिग्रहपरिहाररूपाऽकिञ्चनता । तप उक्तनिर्वचनम्, उक्तस्य संयमादेर्वच्यमाणस्य चान्त्यादेः संवर हेतोर्धर्मस्य मध्ये पठितम् संचरनिर्जराहेतुत्वात् । तच्च द्वादशप्रकारं पूर्वमुक्तम् । प्रकीर्णकं चेदमनेकविधम्, तद्यथा यवमध्यं वज्रमध्यं, चान्द्रायणं, कनकरत्नमुक्तावल्यस्तिस्रः सिंहविक्रीडिते द्वे, सप्त सप्तमिकाद्याः प्रतिमाश्चतस्रः सर्वतोभद्रम् भद्रोत्तरम्, आचाम्लवर्धमानमित्येवमादि । तथा, द्वादशभिक्षुप्रतिमा मासिक्याद्या श्री सप्तमासिक्याः सप्त सप्तरात्रिक्यस्तिस्रः, होरात्रिकी, एकरात्रिकी च । चान्तिः क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः । सा च क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात्, क्रोधदोषचिन्तनात्, बालस्वभावचिन्तनात्, स्वकृतकर्मफलाभ्यागमचिन्तनात्, क्षमागुणानुप्रेक्षणाच्च । तत्र येन दोषेण मामाक्रोशति परः स दोषो मयि यद्यस्ति तदस्य सद्भूतमर्थं प्रकाशयतः कोऽपराध: ? । अथ नास्ति, तर्हि मृपाऽसौ वदतीति भावाभावविचिन्तनात् क्षमितव्यमेव, यदाह आष्टेन मतिमता तवार्थविचारणे मतिः कार्या । यदि सत्यं कः कोषः स्यादनृतं किं नु कोपेन ॥ १ ॥ क्रोधदोषचिन्तनादपि क्षमितव्यमेव । क्रुद्धस्य तावद् ध्रुवं कर्मबन्धः, ततः पराभिघातः, ततोऽप्यहिंसाव्रतलोपः, क्रुद्धस्य चापवदतः सूनृतव्रतलोपः, विस्मृतप्रव्रज्याप्रतिपत्तिश्चादत्तमपि गृह्णीयात् ततोऽस्तेयत्रतलोपः, द्वेषात् For Personal & Private Use Only ***1-1+1kk* www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy