SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ । असत्यतो लघीयस्त्वमसत्याद्वचनीयता। अधोगतिरसत्याच्च तदसत्यं परित्यजेत् ॥ ५६ ॥ __लघीयस्त्वं वचनीयता चासत्यस्यैहिकं फलं, अधोगतिरामुष्मिकम् ॥५६॥ ___ अथ भवतु क्लिष्टाशयपूर्वस्यासत्यस्य निषेधः, प्रामादिकस्य तु का वाःत्याहअसत्यवचनं प्राज्ञः प्रमादेनापि नो वदेत् । श्रेयांसि येन भज्यन्ते वात्ययेव महाद्रुमाः ॥५७॥ ___ आस्तां क्लिष्टाशयपूर्वकमसत्यवचनं, प्रामादिकमप्यज्ञानसंशयादिजनितवचनं न वदेत् येन प्रामादिकेनासत्यवचनेन श्रेयांसि भङ्गमुपयान्ति वात्ययेव महाद्रुमा इति दृष्टान्तः । यदाहुमहर्षयः श्रइम्मि य कालम्मि* पच्चुप्पन्नमणागए । जमहं तु न जाणेज्जा एवमेध ति यो वए॥१॥ अहम्मि य कालम्मि* पच्चुप्पसमणागए । जत्थ संका भवे तंतु, एवमेधं ति यो वए ॥२॥ अइअम्मि य कालम्मि पच्चुप्पत्रमणागए । निस्संकिगं भवे जंतु, एवमेनं तु निदिसे ॥३॥ एतच्चासत्यं चतुर्द्धा-भूतनिह्ववो, अभूतोद्भावनं, अर्थान्तरं, गहरे च । भूतनिद्ववो यथा-नास्त्यात्मा, नास्ति पुण्यं, नास्ति पापं चेत्यादि । अभूतोद्भावनं यथा-सर्वगत आत्मा श्यामाकतन्दुलमात्रो वा । अर्थान्तरं यथा-गाम (१) अतीते च काले प्रत्युत्पन्नमनागते । यमर्थ तु न जानीयात् एवमेतत् इति नो वदेत् ॥ १ ॥ * अद्धम्मि । (२) अतीते च काले प्रत्युत्पन्नमनागते । यत्र शङ्का भवेत्तत्तु एवमेतत् इति नो वदेत् ॥२॥ (३) अतीते च काले प्रत्युत्पन्नमनागते । निःशङ्कितं भवेत्तत्तु एवमेतत् तु निर्दिशेत् ॥ ३ ॥ * अद्धम्मि। For Personal & Private Use Only www.jainelibrary.org Jain Education internation
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy