SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ बोग द्वितीय: प्रकाशः। ॥१.१॥ श्वमभिदधतः । गहों तु विधा, एका सावद्यव्यापारप्रवत्तेनी, यथा क्षेत्र कृषत्यादि । द्वितीया अप्रिया. काय काणमिति वदतः । तृतीया आक्रोशरूपा, यथा अरे बान्धकिनेय इत्यादि ।। ५७॥ अतिपरिहरणीयत्वमसत्यवचनस्य दर्शयन् पुनरप्यैहिकान् दोषानाहअसत्यवचनाद्वैरविषादाप्रत्ययादयः । प्रादुःषन्ति न के दोषाः कुपथ्यावयाधयो यथा ॥५॥ वैरं विरोधः, विषादः पश्चात्तापा, अप्रत्ययोऽविश्वासः । श्रादिग्रहणाद्राजावमानादयो गृह्यन्ते ॥ ५ ॥ - आमुष्मिक मृषावादस्य फलमाहनिगोदेष्वथ तिर्यतु तथा नरकवासिषु। उत्पद्यन्ते मृषावादप्रसादेन शरीरिणः ॥ ५९॥ निगोदा अनन्तकायिका जीवास्तेषु, तिर्यचु गोबलीवर्दन्यायेन शेषतिर्यग्योनिषु, नरकवासिषु नैरयिकेषु ॥५६॥ इदानीं मृषावादपरिहारे अन्वयव्यतिरेकाम्यां कालिकाचार्यवसुराजौ दृष्टान्तावाहब्रूयाद्भियोपरोधाद्वा नासत्यं कालिकार्यवत् । यस्तु ब्रूते स नरकं प्रयाति वसुराजवत् ॥६०॥ मिया मरणादिभयेन, उपरोधादाक्षिण्यादसत्यं न ब्रूयात् । यस्तु ब्रूते भियोपरोधाद्वा इत्यत्रापि संबन्धनीयं, दृष्टान्तौ संप्रदायगम्यौ । स चायम् । (१) कुलटापुत्र । ॥१.१॥ Fe Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy