SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ याग चतुर्थः प्रकाशः। शास्रम् ॥२६२॥ मनसो निर्मलत्वम् । काः पुनर्लेश्याः? कृष्णानीलकापोततेजःपद्मशुक्लत्रणेद्रव्यसाचिव्यादात्मनस्तदनुरूप: परिणामः, यदाह कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्त्तते ॥१॥ तत्र कृष्णवणेपुद्गलसन्निधाने य आत्मनोऽशुद्धतमः परिणामः सा कृष्णलेश्या । नीलद्रव्यसन्निधाने य | आत्मनोऽशुद्धतरः परिणामः सा नीललेश्या। कापोतवर्णद्रव्यसान्निध्यात्तदनुरूपोऽशुद्ध आत्मपरिणामः कापोतलेश्या । तेजोवर्णद्रव्यसान्निध्यात्तदनुरूपः शुद्ध प्रात्मपरिणामस्तेजोलेश्या । पद्मवर्णद्रव्यसानिध्यात्तदनुरूपः शुद्धतर आत्मपरिणामः पद्मलेश्या। शुक्लवर्णद्रव्यसान्निध्याच्छद्धतम आत्मपरिणामः शुक्ललेश्या । कृष्णादिद्रव्याणि च सकलकमेप्रकृतिनिःस्यन्दभूतानि, तदपाधिजन्माना भावलेश्याः कमस्थितिहेतवः । यदाह ताः कृष्णनीलकापोततेजसी(स)पद्मशुलनामानः । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधायः ॥२॥ एताश्चाऽशुद्धतमाऽशुद्धतरा शुद्धशुद्धशुद्धतरशुद्धतमात्मपरिणामरूपा जम्बूफलखादकदृष्टान्ताद् ग्रामघातकदृष्टान्ताचावसेयाः। आगमगाथाश्चात्र जह जम्बुतरुवरेगो सुपक्कफलभरियनमियसालग्गो । दिदो छहि पुरिसेहिं ते बिती जंबु भक्खेमो ॥१॥ किह पुण ते बितेगो पारुहमाणाण जीसंदेहो । ता जिंदिऊण मूले पाडेउं ताहि भक्खेमो ॥ २ ॥ (१) यथा जम्बूतरुवर एकः सुपक्कफलभरितनमितसालाग्रः । दृष्टः षद्भिः पुरुषैस्ते ब्रुवन्ति जम्बूनि भक्षयामः ॥१॥ कथं पुनस्ते बुवन्ति एक ( आह ) आरोहतां जीवसन्देहः । ततश्छित्त्वा मूलतः पातयित्वा तानि भक्षयामः ॥२॥ २९२॥ Jain Education inteSE For Personal & Private Use Only 5d w ww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy