SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ संनिहितां नावं परित्यज्य महार्णवं भुजाभ्यां तरीतुमिच्छन्ति । यथा नावमन्तरेण महार्णवो भुजाभ्यां दुस्तरः तथा मनःशुद्धिमन्तरेण तपसा मुक्तिर्दुष्प्रापा ॥ ४२ ॥ ये तु ध्यानं तपःसहितं मुक्तिदं इति वदन्तो मनःशुद्धिमुपेक्षन्ते, ध्यानमेव तु कर्मक्षयकारणं इति प्रतिपन्नास्तान् प्रत्याहतपस्विनो मनःशुद्धिविनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पणः ॥४३॥ __तपखिनोऽपि ध्यानं, खलु निश्चयेन, मुधा । किंविशिष्टस्य ? सर्वथा मनःशुद्धिविनाभूतस्य लेशेनापि मनःशुद्धिरहितस्य । यद्यपि मनःशुद्धिरहितानामपि तपोध्यानबलेन नवमग्रेवेयकं यावद् गतिः श्रूयते, तथापि तत् प्रायिकम्, न च तत् फलत्वेन विवक्षितम् , मोक्षस्यैव फलरूपत्वात् । अतो ध्यानं मुधा । यथा दर्पणो रूपनिरूपणकारणमपि चक्षुर्विकलस्य मुधा, तथा ध्यानमपीति भावः ॥ ४३ ॥ उपसंहरतितदवश्यं मनःशुद्धिः कर्तव्या सिद्धिमिच्छता । तप:श्रुतयमप्रायैः किमन्यैः कायदण्डनैः ॥४४॥ तत् तस्मात् अवश्यं निश्चयेन मनःशुद्धिः कर्त्तव्या सिद्धिं मोक्षमभिलषता । आवश्यकत्वे हेतुमाह-किमन्यैः कायदण्डनैः ? कायो दण्ड्यत एभिरिति कायदण्डनास्तैः, कैः ? तपःश्रुतयमप्रायैः-तपोऽनशनादि, श्रुतमागमः, यमा महाव्रतानि । प्रायग्रहणाद् नियमादयो गृह्यन्ते । अत्रेदमनुयोक्तव्यम्-केयं मनसः शुद्धिः ? लेश्याविशुद्ध्या an Education Intel For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy