SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ योग शाखम ॥२१॥ इदानीमिन्द्रियजयहेतुं मनःशुद्धिं प्रस्तौति चतुर्थः दीपिका खल्वनिर्वाणा निर्वाणपथदर्शिनी। एकैव मनसः शुद्धिः समाम्नाता मनीषिभिः॥४०॥ प्रकाशः । एकैव सा यमनियमादिरहितापि मनःशुद्धिः दीपिकेव दीपिका, किंविशिष्टा ? अनिर्वाणा अविध्याता, निर्वाणस्य मोक्षस्य पन्था निर्वाणपथस्तं दर्शयतीत्येवंशीला निर्वाणपथदर्शिनी, मुमुक्षोः इति शेषः, समाम्नाता पारम्पर्येण कथिता, कैः ? मनीषिभिः पूर्वाचायः, यदाहज्ञाने ध्याने दाने माने मौने सदोद्यतो भवतु । यदि निर्मलं न चित्तं तदा हुतं भस्मनि समग्रम् ॥१॥४०॥ मनःशुद्धेरन्वयव्यतिरेकाभ्यां गुणान्तरदर्शनेनोपदेशमाहसत्यां हि मनसः शुद्धौ सन्त्यसन्तोऽपि यद्गुणाः । सन्तोऽप्यसत्यां नोसन्ति सैव कार्या बुधैस्ततः । ___यद् यस्मात् सत्यां विद्यमानायां मनसः शुद्धावसन्तोऽप्यविद्यमाना अपि सन्ति भवन्ति तत्फलसद्भावाद् गुणाः क्षान्त्यादयः। सन्तो विद्यमाना अपि गुणा असत्यां मनसः शुद्धौ नो सन्ति न सन्त्येव, तत्फलाभावात् । ततः कारणादन्वयव्यतिरेकाभ्यां निश्चितफला सैव मनःशुद्धिः कार्या बुधैर्विवेकिमिः ॥४१॥ ये तु "आस्तामेषा मनःशुद्धिः, तपोबलेनैव मुक्तिं वयं साधयिष्यामः," इति प्रतिपद्यन्ते तान् प्रत्याहमनःशुद्धिमबिभ्राणा ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते तितीर्षन्ति महार्णवम् ॥४२॥ मनःशुद्धिमबिभ्राणा अधारयन्तो ये मुक्तये मुक्तिनिमित्तं तपस्यन्ति तपःक्लेशमनुभवन्ति, ते दुर्ग्रहग्रहिलाः । ॥२६१॥ For Personal & Private Use Only Jan Education intedal wrane.lainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy