SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ 40.+1+++***++*493 Jain Education International धारयति स हस्ते विवेकिभिः । क इव कथम्भूतः । पङ्गुरिव पद्भ्यां पादाभ्यां ग्रामान्तरं जिगमिषुः । पादप्रचाररूपो हि मनोरोधस्तदभावे कथं पङ्गुग्रामान्तरजिगमिषातुल्या योगश्रद्धेति ॥ ३७ ॥ न केवलमनिरुद्धमनस्कस्य योगश्रद्धा विफला यावदशुभकर्माणि बहुतराण्यस्य प्रादुःषन्तीत्युत्तरार्द्धेन प्रतिपादयितुं पूर्वार्डेन काका मनोरोधमुपदिशति मनोरोधे निरुध्यन्ते कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्य प्रसरन्ति हि तान्यपि ॥ ३८ ॥ मनसो रोधो विषयेभ्यो निवारणं तस्मिन् सति निरुध्यन्ते प्रतिबाध्यन्ते श्राश्रवनिरोधात् कर्माण्यपि ज्ञानावरयादीन्यतिप्रबलानि समन्ततः सामस्त्येन । मनोरोवायत्तत्वात् कर्मरोधस्य । प्रकृते योजयति - अनिरुद्धमन स्कस्य पुंस्तान्यपि कर्माणि प्रसरन्ति विवर्द्धन्ते मनःप्रसराधीनत्वात् कर्मप्रसरस्य ॥ ३८ ॥ तदेतन्निश्चित्य मनोनियन्त्रणाय चत्नः कार्य इत्येतदाह मनःकपिरयं विश्वपरिभ्रमण लम्पटः । नियन्त्रणीयो यत्नेन मुक्तिमिच्छुभिरात्मनः ॥ ३९ ॥ मनो भावमन एव कपिर्मर्कटः । श्रयमिति सर्वेषां स्वसंवेदनसिद्धः । कपित्वरूपेण साधर्म्यमाह – विश्वस्मिन् जगति परिभ्रमणमन्यान्यविषयग्रहरूपमनवस्थानं तत्र लम्पटो लोलुपस्तदेवंविधो मनः कपिर्नियन्त्रणीयो निरोद्धव्यः चापलं परित्याज्योचिते विषये परिस्थाप्यः । यत्नेन तत्त्वाभ्यासरूपेण । किं कुर्वद्भिः ? मुक्तिं मोक्षमिच्छन्तीत्येवंशीलास्तैरात्मनः स्वस्य । मनश्चापलनिरोधस्य साध्या हि मुक्तिरिति ॥ ३६ ॥ For Personal & Private Use Only 19/0/+******+*()+-*+k www.jainvelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy