SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥ २६ ॥ इह द्विविधं मनः-द्रव्यमनो भावमनश्च । तत्र द्रव्यमनो विशिष्टाकारपरिणताः पुद्गलाः । भावमनस्तु तद्रव्योपाधिसंकल्पात्मक आत्मपरीणामः । मन एव संकल्परूपं क्षपाचरो राक्षसः, अविषयेऽपि प्रकाशन प्रवृत्तिशीलत्वात, भ्राम्यन् तत्र तत्र विषये स्थैर्यमनवलम्बमानः । कथं भ्राम्यन् ? अपशक़ निर्भयं यथा भवति । तदपि कुतः? निर्गतस्तत्त्वभावनादिनि(नि)वारकत्वात अङ्कशो यस्माद् स तथा । प्रपातयति प्रकर्षेण पातयति संसार एवावर्त्तप्रधानोगतस्तत्र । जगत्रयीमिति । न स कश्चिद् जन्तुर्जगत्त्रयेऽप्यस्ति, यो निरङ्कुशेन मनसा संसारावर्त्तगर्ने न पात्यते । जगत्रयगतानां जन्तूनां संसारावर्तगर्ने पातनाद् जगत्रयीं पातयतीति उपचारादुक्तम् ॥ ३५ ॥ पुनरनियन्त्रिते मनसि दोषमाहतप्यमानांस्तपो मुक्तौ गन्तुकामान् शरीरिणः। वात्येव तरलं चेतः क्षिपत्यन्यत्र कुत्रचित्॥३६॥ तप्यमानान् कुर्वाणान्, किं तत् ? तपः। तथा मुक्ती मोक्षे गन्तुकामान् गन्तुमध्यवसितान् शरीरिणो जन्तून् तरलमेकत्रानवस्थायि चेतो भावमनः कई क्षिपत्यन्यत्र कुत्रचित् मोक्षादन्यत्र नरकादौ । किंवद् ? वात्येव, यथान्यत्र गन्तुकामान् मनुष्यादीन् वातसमूहो विवक्षिताद् देशात अन्यत्र नयति, एवं तरलं चेतोऽपि ॥ ३६॥ ___ पुनरनियन्त्रितस्य मनसो दोषमाहअनिरुद्धमनस्कः सन् योगश्रद्धां दधाति यः। पद्भ्यां जिगमिषुामं स पङ्गुरिव हस्यते॥३७।। न निरुद्धं चापल्यात् च्यावितं मनो येन सोऽनिरुद्धमनस्कः सन् योगश्रद्धा अहं योगीत्यभिमानं यो दधाति |:॥ २६० ॥ in Education inte For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy