________________
ROCIR+K++++
Jain Education Interna
*****-)+*
जुगुप्सां च जय त्वं चक्षुरिन्द्रियम् ॥ ६ ॥ स्वरे श्रव्ये च वीणादेः खरोष्ट्रादेव दुःश्रवे । रतिं जुगुप्सां च जयन् श्रोत्रेन्द्रियजयी भव || १० | कोऽपि नास्तीह विषयो मनोज्ञ इतरोऽपि वा । य इन्द्रियैर्नोपभुक्तस्तत्स्वास्थ्यं किं न सेव्यते ? ॥ ११ ॥ शुभा श्रप्यशुभायन्ते शुभायन्तेऽशुभा श्रपि । विषयास्तत् व रज्येत विरज्येत क्व चेन्द्रियैः ॥ १२ ॥ स एव रुच्यो द्वेष्यो वा विषयो यदि हेतुतः । शुभाशुभत्वं भावानां तन्न तत्वेन जातुचित् ॥ १३ ॥ एवं विमृश्य विषयेषु शुभाशुभत्व - मौपाधिकं तदविमुक्तिविरक्तचेताः । हन्तेन्द्रियार्थमधिकृत्य जहीहि रागं, द्वेषं तथेन्द्रियजयाय कृताभिलाषः ।। १४ ।।
अथैवं दुर्जयेन्द्रियजयं प्रति कोऽसाधारण उपाय इत्याह- मनः शुद्ध्या मनसो निर्मलत्वेन सन्त्यन्यान्यपि यमनियमवृद्धसेवाशास्त्राभ्यासादीनीन्द्रियजयकारणानि किन्तु साधकतमं मनःशुद्धिरेव । अन्यानि तु नैकान्तिकान्यात्यन्तिकानि वा अविशुद्धे हि मनसि यमनियमादीनि सन्त्यपि नेन्द्रियजयनिबन्धनानि, एतदेवाह – यां विना यमेत्यादि । यां मनः शुद्धिं विना यमा मूलगुणा नियमा उत्तरगुणास्तैरुपलक्षणत्वाद् वृद्धसेवादिभिश्च यः कायक्लेशः स नृणां पुरुषाणां वृथा । सा च मनःशुद्धिः केषाञ्चित् स्वभावत एव भवति मरुदेव्यादीनाम् । | केषाञ्चित् तु यमनियमाद्युपायबलाद् नियन्त्रिते मनसि भवति ॥ ३४ ॥
अनियन्त्रितं मनो यत्करोति तदाह
मनःक्षपाचरो भ्राम्यन्नपशङ्कं निरङ्कुशः । प्रपातयति संसाराऽऽवर्त्तगर्त्ते जगत्रयीम् ॥३५॥
For Personal & Private Use Only
***********6400
www.jainelibrary.org