SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥२८६ ॥ जनकत्वमिति दर्शनार्थम् । एकैको विषयो गजादीनां पञ्चत्वाय मरणाय । यस्तु पुमान् सर्वेषु विषयेष्वासक्तस्तं चतुर्थः प्रत्याह-कथं हि युगपत् पश्चापि विषयाः सेविताः पञ्चत्वाय न भवन्ति ? अपि तु भवन्त्येवेति । यदाह प्रकाशः। पञ्चसु सक्ताः पश्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः॥१॥३३॥ इन्द्रियदोषानभिधाय तज्जयोपदेशमाहतदिन्द्रियजयं कुर्याद् मनःशुद्ध्या महामतिः। यांविना यमनियमैः कायक्लेशो वृथा नृणाम् ॥३४॥ ___ यस्मादेवंविधानर्थसार्थसमर्थकानीन्द्रियाणि तत् तस्मादिन्द्रियाणां भावेन्द्रियाणां जयं कुर्यात् । द्विविधानि हीन्द्रियाणि, द्रव्येन्द्रियाणि भावेन्द्रियाणि च। तत्र द्रव्येन्द्रियाणि स्पर्शनेन्द्रियाद्याकारपरिणतानि पुद्गलद्रव्याणि, भावेन्द्रियाणि स्पर्शादिष्वभिलाषोपायरूपाणि तेषां जयो लौन्यपरिहारेणावस्थानम् । अत्रान्तरश्लोकाः___ अनिर्जितेन्द्रियग्रामो यतो दुखैः प्रबाध्यते । तस्माज्जयेदिन्द्रियाणि सर्वदुःखविमुक्तये ॥१॥न चेन्द्रियाणां विजयः। सर्वथैवाप्रवर्त्तनम् । रागद्वेषविमुक्त्या तु प्रवृत्तिरपि तज्जयः॥२॥ अशक्यो विषयोऽस्पष्टुमिन्द्रियैः स्वसमीपगः। रागद्वेषो पुनस्तत्र मतिमान् परिवर्जयेत् ॥३॥ हताहतानीन्द्रियाणि सदा संयमयोगिनाम् । अहतानि हितार्थेषु हतान्यहितवस्तुषु ॥४॥ जितान्यक्षाणि मोक्षाय संसारायाजितानि तु । तदेतदन्तरं ज्ञात्वा यद् युक्तं तत् समाचर ॥५॥ स्पर्श मृदौ च तून्यादेरुपलादेश्च कर्कशे । भव रत्यरती हित्वा जेता स्पर्शनमिन्द्रियम् ॥ ६॥ रसे स्वादौ च भक्ष्यादेरितरस्मिन्नथापि वा । प्रीत्यप्रीती विमुच्यो चैर्जिहेन्द्रियजयी भव ॥ ७ ॥ घ्राणदेशमनुप्राप्ते शुभे गन्धेऽपरत्र वा । ज्ञात्वा वस्तुपरीणामं घ्राणेन्द्रियजयं कुरु ॥८॥ मनोज्ञं रूपमालोक्य यदिवा तद्विलक्षणम् । त्यजन् हर्ष ॥२८ ॥ For Personal & Private Use Only Jan Educationin " ware.ainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy