SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Jain Education Internati *%*७१*+ वात्स्यायन श्लोको यथा रक्तजाः कृमयः सूक्ष्मा मृदुमध्याधिशक्तयः । जन्मवर्त्मसु कण्डूर्ति जनयन्ति तथाविधाम् ॥८०॥ रक्तजा रक्तोद्भवाः, कृमयो जन्तुविशेषाः, सूक्ष्मा श्रप्रत्यचाः, मृदुमध्याधिशक्तयः मृदुशक्तयो मध्यशक्तयो - घिशक्तयश्च, तथाविधां मृदुमध्याधिमात्रशक्त्यनुरूप. मृदुशक्तयो मृद्रीं, मध्यशक्तयो मध्यां, अधिकशक्तयोऽधिकां कण्डूर्ति कण्डूं जन्मवर्त्मसु योनिषु जनयन्ति ॥ ८० ॥ कामज्वरचिकित्सार्थमौषधमिव मैथुनसेवनमिति यो मन्यते तं प्रत्याह स्त्रीसम्भोगेन यः कामज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या विध्यापयितुमिच्छति ॥ ८१ ॥ प्रतिचिकीर्षति प्रतिकर्तुमिच्छति, विध्यापयितुं शमयितुम्, अयमर्थो - नायं कामज्वरस्य प्रतीकारो ऽनुगुखः, अपि तु वृद्धिहेतुः, न हि हुताशे घृताहुतिप्रचेपस्तच्छान्त्यै भवति किन्तु तद्वृद्ध्यै । बाह्या श्रप्याहु: न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥ १ ॥ किन्तु कामज्वरप्रतीकारा ईषत्करा वैराग्यभावनाप्रतिपचसेवाधर्मशास्त्र श्रवणादयः, तदेतेषु कामज्वरप्रशान्त्युपायेषु सत्सु किं भवभ्रमणहेतुना मैथुनसेवनेन ॥ ८१ ॥ एतदेवाह - वरं ज्वलदयस्तम्भपरिरम्भो विधीयते । न पुनर्नरकद्वाररामाजघनसेवनम् ॥ ८२ ॥ For Personal & Private Use Only 30-03-2014-03-10-1 2083 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy