SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ इदानीं योगप्रमादाविरतीनां प्रतिपक्षानाहतिमृभिर्गुप्तिभिर्योगान् प्रमादं चाप्रमादतः। सावद्ययोगहानेनाविरतिं चापि साधयेत् ॥८४॥ गुप्तिभिर्मनोवाक्कायरक्षणलक्षणाभिः, तिमभिरिति तासां संख्यावचनम् , योगान् मनोवाक्कायव्यापारलक्षणान् प्रमादं मद्यविषयकषायनिद्राविकथालक्षणं पञ्चविधम् , अज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशधर्मानादरयोगदुष्प्रणिधानरूपतयाऽष्टविधं वाप्रमादेन तत्प्रतिपक्षभृतेन साधयेत् ; सावद्या ये योगा व्यापारास्तेषां हानेन त्यागेनाविरतिमनियमं साधयेत् ।। ८४ ॥ इदानीं मिथ्यात्वातरौद्रध्यानानां प्रतिपक्षानाह- . सदर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः। विजयेतातरौद्रे च संवरार्थं कृतोद्यमः ॥ ८५ ॥ __ सद्दर्शनेन सम्यग्दर्शनेन मिथ्यात्वं मिथ्यादर्शनं विजयेत, शुभं धर्मशुक्लध्यानरूपं यच्चेतसः स्थैर्य तेनातरौद्रध्याने विजयेत, संवरार्थ संवरनिमित्तं कृतोद्यमः प्रयत्नवान् योगी । अत्रान्तरश्लोकाः यथा चतुष्पथस्थस्य बहुद्वारस्य वेश्मनः । अनावृतेषु द्वारेषु रजः प्रविशति ध्रुवम् ॥ १॥ प्रविष्टं स्नेहयोगाच्च तन्मयत्वेन बध्यते । न विशेन च बध्येत द्वारेषु स्थगितेषु तु ॥२॥ यथा वा सरसि कापि सर्वैारैर्विशेअलम् । तेषु तु प्रतिरुडेषु प्रविशेद् न मनागपि । ३॥ यथा वा यानपात्रस्य मध्ये रन्धर्विशेजलम् । कृते रन्ध्रपिधाने तु न स्तोकमपि तद् विशेत ॥ ४॥ योगादिष्वाश्रवद्वारेष्वेवं रुद्धेषु सर्वतः । कर्मद्रव्यप्रवेशो न जीवे in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy