________________
सर्वात्मना यतीन्द्राणामेतच्चारित्रमीरितम्। यतिधर्मानुरक्तानां देशतः स्यादगारिणाम्॥४६॥
द्विधा चारित्रं सर्वदेशभेदात् । सर्वात्मना चारित्रं सर्वसावद्ययोगविरतिलक्षणम् । यतीन्द्राणामनगारिश्रेष्ठानामेतन्मूलगुणोत्तरगुणस्वरूपमीरितम्। धातूनामनेकार्थत्वात्प्रतिपादितम् । देशचारित्रं तु केषामित्याह । अगारिणां गृहस्थानां देशत एकदेशविरतिलक्षणम् । किं विशिष्टानामगारिणां? यतिधर्मानुरक्तानां यतिधर्मे सर्वविरतिचारित्र रूपे अनुरक्तानां संहननादिदोषादकुर्वतामपि प्रीतिमताम् । यदाह-सर्वविरतिलालसः खलु देशविरतिपरिणाम: यतिधर्मानुरागरहितानां तु गृहस्थानां देशविरतिरपि न सम्यगिति देशतः स्यादगारिणामित्युक्तम् ॥ ४६ ॥ ____ तत्र यादृशो गृहस्थो धर्माधिकारी तादृशमुपदर्शयितुं तथाहीत्यनेन प्रस्तावनामाह, तथाहीत्युपदर्शने निपातसमुदायःन्यायसम्पन्नविभवः शिष्टाचारप्रशंसकः। कुलशीलसमैः सार्धं कृतोद्वाहोऽन्यगोत्रजैः ॥४७॥ पापभीरुः प्रसिद्धं च देशाचारं समाचरन् । अवर्मवादी न क्वापि राजादिषु विशेषतः॥४८॥
अनतिव्यक्तगुप्ते च स्थाने सुप्रातिवेश्मिके । अनेकनिर्गमद्वारविवर्जितनिकेतनः ॥ ४६ ॥ * कृतसङ्गः सदाचारैर्मातापित्रोश्च पूजकः । त्यजन्नुपप्लुतं स्थानमप्रवृत्तश्च गर्हिते ॥ ५० ॥
व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः।अष्टभिर्धीगुणैर्युक्तः शृण्वानो धर्ममन्वहम् ॥५१॥
For Personel Private Use Only
www.jainelibrary.org