________________
योग
शास्रम्
॥१९॥
कृतवामवाहूपधान आकुञ्चितजानुकः कुक्कुटीवद्वियति प्रसारितजङ्घो वा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः प्रथमः सङ्कोचसमये प्रमार्जितसंदंशकः उद्वर्तनकाले च मुखवस्त्रिकाप्रमृष्टकायो नात्यन्ततीव्रनिद्रः शयीत । प्रमाणयुक्ता मप्रकाशः। तु वसतिहस्तत्रयप्रमिते भूप्रदेशे प्रत्येकं. सभाजनानां साधूनां यत्रावस्थानं सकलावकाशपूरणं च स्यात् । आसनमुपवेशनं तद्यत्र प्रदेशे चिकीर्पितं तं चक्षुषा निरीक्ष्य प्रमृज्य च रजोहरणेन बहिर्निषद्यामास्तीर्योपविशेष उपवि. ष्टोऽप्याकुश्चनप्रसारणादि तथैव कुर्वीत वर्षादिषु च वृषीपीठादिषक्तयैव सामाचार्योपविशेत् । निक्षेपादाने च दण्डाद्युपकरणविषये ते अपि प्रत्यवेक्ष्य प्रमृज्य च विधेये । चंक्रमणं गमनं तदप्यावश्यकप्रयोजनवतः साधोः पुरस्ताद्युगमात्रप्रदेशसन्निवोशितदृष्टेरप्रमत्तस्य त्रसस्थावरभूतानि संरक्षतोऽत्वरया पदन्यासमाचरतः प्रशस्तं । स्थानमूर्ध्वस्थितिलक्षणमवष्टम्भादि च प्रत्यवेक्षितप्रमार्जितप्रदेशविषयम् । एतेषु चेष्टानियमः स्वच्छन्दचेष्टापरिहारो यः सो अपरा द्वितीया कायगुप्तिरिति ॥ ४४ ॥
एतासामागमप्रसिद्धं मातृत्वमुपदर्शयतिएताश्चारित्रगात्रस्य जननात्परिपालनात्। संशोधनाच्च साधूनां मातरोऽष्टौ प्रकीर्तिताः॥४५॥ | ___एताः समितिगुप्तयः शास्त्रेऽष्टौ मातर इति प्रसिद्धाः । मातृत्वे हेतूनाह । साधूनां सम्बन्धि चारित्रमेव गात्रमङ्गं || तस्य जननादभूतस्य प्रादुर्भावनात् । जनितस्य च चारित्रगात्रस्य परिपालनात्सर्वोपद्रवनिवारणेन पोषणेन च वृद्धिनयनात् । चारित्रगात्रस्यैवातिचारमलिनस्य सतः संशोधनानिर्मलीकरणादिति ॥ ४५ ॥ चारित्रं व्याख्यायोपसंहरति
॥४६॥
Lain Education inte
r d!
For Personal & Private Use Only
www.jainelibrary.org