SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ * 100 K++* 11K+++ Jain Education International यदाहु:-- समय नियमा गुत्तो गुतो समियत्तयम्मि भयणिओ । कुसलवयमुईरंतो जं वइगुत्तो वि समिओ वि ॥ १ ॥४२॥ अथ काय गुप्तिः सा च द्विधा चेष्टानिवृत्तिलक्षणा यथासूत्रं चेष्टानियमलक्षणा च तत्राद्यामादउपसर्ग कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य कायगुप्तिर्निगद्यते ॥ ४३ ॥ उपसर्गा देवमानुपतिर्यकृता उपद्रवाः । उपलक्षणत्वात् क्षुत्पिपासादयः परीपहा अपि गृह्यन्ते तेषां प्रसङ्गः सन्निपातः । अपि शब्दात्तदभावेऽपि मुनेः साधोः कायः शरीरं तस्योत्सर्गस्त्यागस्तत्र निरपेक्षतालचणस्तं जुषते तस्य कायोत्सर्गजुषो यः स्थिरीभावो निश्चलता योगनिरोधं कुर्वतः सर्वथा शरीरचेष्टापरिहारो वा यः, सा कायगुप्तिः ॥ ४३ ॥ द्वितीयामाह शयनासननिक्षेपादानचंक्रमणेषु यः । स्थानेषु चेष्टानियमः कायगुप्तिस्तु साऽपरा ॥ ४४ ॥ शयनमागमोक्तो निद्राकालः स च रात्रावेव न दिवा । अन्यत्र ग्लानाध्वश्रान्तवृद्धादेः । तत्रापि प्रथमयामे - तिक्रान्ते गुरूनापृच्छ्य प्रमाणयुक्तायां वसतौ संवीक्ष्य प्रमृज्य च भूमिं संहत्यास्तीर्य च संस्तरणपट्टकद्वय मूर्ध्वमध कार्य सपादं मुखवस्त्रिकार जोहरणाभ्यां प्रमृज्यानुज्ञापितसंस्तारकावस्थानः पठितपश्ञ्चनमस्कार सामायिकसूत्रः १ समितो नियमाद्गुतो गुप्तः समितत्वे भजनीयः । कुशलवाचमुदीरयन् यत् वाम्गुप्तोऽपि समितोऽपि ॥ १ ॥ ९ For Personal & Private Use Only ******++******+03-04 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy