SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ याग प्रथम: प्रकाशः। शास्त्रम् ॥४८॥ यन्नादुपयोगपूर्वकं यदुत्सृजेत्साधुः सोत्सर्गसमितिः ॥ ४० ॥ अथ गुप्तीनामवसरः, तत्र मनोगुप्तिमाहविमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता ॥४१॥ इह मनोगुप्तिस्त्रिधा । प्रातरौद्रध्यानानुबन्धिकल्पनाजालवियोगः प्रथमा । शास्त्रानुसारिणी परलोकसाधिका धर्मध्यानानुवन्धिनी माध्यस्थ्यपरिणतिद्वितीया । कुशलाकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्यात्मारामता तृतीया । ता एतास्तिस्रोऽपि विशेषणत्रयेणाह-विमुक्तकल्पनाजालमिति समत्वे सुप्रतिष्ठितमिति आत्माराममिति च एवंविधं मनो मनोगुप्तिः ॥ ४१ ॥ वाग्गुप्तिमाहसंज्ञादिपरिहारेण यन्मौनस्यावलम्बनम् । वाग्वृत्तेः संवृतिर्वा या सा वाग्गुप्तिरिहोच्यते ॥४२॥ ___ संज्ञा मुखनयनभूविकाराङ्गुल्याच्छोटनादिका अर्थसूचिकाश्चेष्टाःआदिशब्दालोष्टक्षेपोलीभावकासितहुतादीनि गृह्यन्ते । संज्ञादीनां यः परिहारस्तेन यन्मौनमभाषणं तस्यावलबनमभिग्रहः। संज्ञादिना हि प्रयोजनानि सूचयतो मौनं निष्फलमेवेत्येका वाग्गुप्तिः । वाचनप्रच्छनपृष्टव्याकरणादिषु लोकागमाविरोधेन मुखवस्त्रिकाच्छादितवक्त्रस्य भाषमाणस्यापि वाग्वृत्तेः संवृतिर्वाग्विनियन्त्रणं द्वितीया वाग्गुप्तिः। आभ्यां भेदाभ्यां वाग्गुप्तेः सर्वथा वाग्निरोधः सम्यग्भाषणं च स्वरूपं प्रतिपादितं भवति, भाषासमितौ तु सम्यग्वाक्प्रवृत्तिरेवेति वाग्गुप्तिभाषासमित्योर्भेदः। ॥४८॥ www.jainelibrary.org Inn Education intema 12 For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy