SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ अनुत्तरविमानानि पञ्चैव इति । एवं विमानानां चतुरशीतिर्लक्षाः सप्तनवतिश्च सहस्राणि त्रयोविंशानीति । विजयादिपु चतुर्खनुत्तरविमानेषु द्विचरमा देवाः । सर्वार्थसिद्धे त्वेकचरमाः।। एतेषु च सौधर्मादारभ्य सर्वार्थसिद्धं यावद्देवाः स्थित्या प्रभावेण सुखेन दीप्या लेश्यया विशुध्ध्या इन्द्रियवि. | पयेण अवधिज्ञानविषयेण च पूर्वपूर्वेभ्य उत्तरोत्तरेऽधिकाः, गत्या शरीरेण परिग्रहेणाभिमानेन च हीनहीनतराः। उच्छासः सर्वजघन्यस्थितीनां भवनपत्यादीनां देवानां सप्तस्तोकान्ते, आहारश्चतुर्थान्ते । पल्योपमस्थितीनामन्तर्दिवसस्योच्छ्वासः, दिवसपृथक्त्वतश्चाहारः । यस्य यावन्ति सागरोपमाणि (आयुषः) तस्य तावत्स्वर्धमासेपृच्छ्वासः, तावत्स्वेव वर्षसहस्रेष्वाहासः । देवाश्च सद्वेदनाः प्रायेण भवन्ति, यदि चासद्वेदना भवन्ति ततोऽन्तर्मुहुर्तमेव, न परतः॥ उत्पत्तिर्देवीनामा ईशानात , गमनं च आ अच्युतात् । तापसानामा ज्योतिष्कादुत्पत्तिः । अा ब्रह्मलोकाचरकपरिव्राजकानां । पञ्चेन्द्रियतिरश्चामा सहस्रारात् । मनुष्यश्रावकाणामा अच्युतात् । मिथ्यादृष्टीनां प्रतिपन्नजिनलिङ्गानां यथोक्तसामाचारीपरिपालकानामा नवमग्रैवेयकात् । चतुर्दशपूर्वधराणां ब्रह्मलोकादूर्ध्वमा सर्वार्थसिद्धात् । अविराधितव्रतानां साधूनां श्रावकाणां च जघन्येन सौधर्मे ॥ भवनवास्यादयो देवा आ ईशानात् कायप्रवीचाराः। ते हि संक्लिष्टकर्माणो मनुष्यवन्मैथुनसुखमनुप्रलीयमानास्तीत्रानुशयाः कायसंक्लेशजं सर्वाङ्गीणं स्पर्शसुखमवाप्य प्रीतिमुपलभन्ते इति । शेषाः स्पर्शरूपशब्दप्रवीचारा (१) चरमभविनः ॥ Jain Education intermel For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy