SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ योगशास्रम् ॥ ३३१ ॥ Jain Education Intere तत्र दक्षिणार्धे सनत्कुमार उत्तरार्धे माहेन्द्रः । तत ऊर्ध्वलोकमध्यभागे लोकपुरुषकूर्परसमप्रदेशे ब्रह्मलोकः, तन्नामेन्द्रः, तदेकदेशवासिनः सारस्वतादित्यवहून्यरुण गर्द तोय तुपिताव्याबाधमरुतारिष्टाख्या लोकान्तिका देवाः । ततोऽप्युपरि लान्तकः, तन्नामेन्द्रः । ततोऽप्युपरि महाशुक्रः, तन्नामेन्द्रः । ततोऽप्युपरि सहस्रारः तन्नामेन्द्रः । ततोsप्युपरि सौधर्मेशानवच्चन्द्राकारावानतप्राणतौ कल्पो, तत्र प्राणतवासी तन्नामा तयोरेक इन्द्रः । ततोऽप्युपरि प्राग्वचन्द्राकारावरणाच्युतौ, तत्राच्युतनिवासी तन्नामा तयोरेक इन्द्रः । ततः परमहमिन्द्रा देवाः ॥ तत्र प्रथम कल्प घनोदधिप्रतिष्ठानौ । तदुपरि त्रयो वायुप्रतिष्ठानाः । ततः परं त्रयो घनोदधिघनवातप्रतिष्ठानाः । तदुपर्याकाशप्रतिष्ठानाः । तेष्विन्द्रसामानि कत्रायस्त्रिंशत् पारिषद्यात्मरक्ष लोकपालानीकप्रकीर्णका भियोग्य किल्बिपिका देवाः । तत्रेन्द्राः सामानिकादिभेदानां नवानामधिपतयः । इंद्रसमानाः सामानिका अमात्यपितृगुरूपाध्यायमहत्तरवत्केवल मिन्द्रत्वहीनाः १ । त्रायस्त्रिंशा मन्त्रिपुरोहितस्थानीयाः २ । पारिषद्या वयस्यस्थानीयाः ३ । आत्मरक्षा अङ्गरक्षस्थानीयाः ४ | लोकपाला आरक्षकार्थचरस्थानीयाः ५ | अनीकान्यनीकस्थानीयानि, तदधिपतयो दण्डनायक स्थानीया अप्यनीकानि ६ । प्रकीर्णकाः पौरजनपदस्थानीयाः ७ | अभियोग्या दासस्थानीयाः ८ । विषिकान्तस्य (अन्त्यज ) स्थानीयाः । त्रास्त्रिशल्लोकपालवर्जा व्यन्तरा ज्योतिष्काः || सौधर्मे विमानानां द्वात्रिंशल्लक्षाः । ऐशानेऽष्टाविंशतिः । सनत्कुमारे द्वादश । माहेन्द्रेऽष्टौ । ब्रह्मलोके चत्वारः । लान्तके पञ्चाशत्सहस्राणि । शुक्रे चत्वारिंशत्सहस्राणि । सहस्रारे षट् सहस्राणि । श्रनतप्राण तयोश्चत्वारि शतानि | आरणाच्युतयोस्त्रीणि । प्रथमे ग्रैवेयकत्रिके एकादशोत्तरं शतं । मध्यमे त्रिके सप्तोत्तरं । उपरि त्रिके एकमेव शतं । For Personal & Private Use Only ****** चतुर्थः प्रकाशः । ।। ३३१ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy