SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Jain Education International कान्त्येन्दुस्तेजसा रविः । गाम्भीर्येण महाम्भोधिः क्षमया मुनिसत्तमः ।। ४६ ।। दानैकचिन्तामाणिक्यं गुणमाणिक्यरोहणः । प्रियालापसुधाकुण्डं वसुधामुखमण्डनम् ॥ ५० ॥ खलूक्त्वा खलु यद्वाऽस्य निखिलानपरान् गुणान् । गुणचूडामणेः शीलं यस्य न स्खलति कचित् ॥ ५१ ॥ कपिला कपिलाच्छुत्वा तद्गुणान् कामविह्वला । चक्रेऽनुरागं चपलाः प्रायेण द्विजयोषितः ॥ ५२ ॥ सुदर्शनाभिसरणोपायं प्रतिदिनं ततः । कपिला चिन्तयामास परं ब्रह्मेव योगिनी १५३ || परेद्युर्नृपदेशाद्रामान्तरमुपेयुषि । कपिले कपिलेयाय सुदर्शननिकेतनम् ॥ ५४ ॥ सा मायाविन्यवोचत्तमद्य त्वत्सुहृदो महद | शरीरापाटवं तेन हेतुना नायवाविह ॥ ५५ ॥ पाटवं त्वद्विरहाद्वपुषो द्विगुणं यतः । अतस्त्वामहमाह्वातुं प्रेषिता सुहृदा तब || ३६ || नैतज्ज्ञातं मयेत्युक्त्वा तदैवात् तद्गृहम् । नान्यमायां हि शङ्कन्ते सन्तः स्वयममायिनः ॥ ५७ ॥ स तत्र प्रविशन्नूचे के नाम सुहृदस्ति मे । सोवाच गम्यतामग्रे शयानः सुहृदस्ति ते । ५= ॥ किञ्चिच परिसृप्याग्रे पुनः प्रोचे सुदर्शनः । अत्रापि कपिलो नास्ति किमन्यत्र च ।। ५६ । सोचे स्थितो निवातेऽस्ति शरीरापाटवादसी । मूलापवरकं गच्छ वयस्यं तत्र पश्य च ।। ६० ।। तत्रापि प्रविवेशायमपश्यन् सुहृदं ततः । कपिले ! कपिलः कास्तीत्युवाच सरलाशयः ॥ ६१ ॥ अवरुद्ध्य ततो द्वारं मदनोद्दीपनानि सा । किञ्चित्प्रकाश्य स्वाङ्गानि च्छादयन्त्यच्छवाससा ।। ६२ ।। दृढबन्धामपि नीवीं श्लथयित्वाऽभिवघ्नती | विलोललोचनाऽवोचद्रोमाञ्चोदश्चिकञ्चुका ।। ६३ ।। (युग्मं ) नास्तीह कपिलस्तस्मात्कपिलां प्रतिजागृहि । विभेदो भवतः को वा द्वयोः कपिलयोर्ननु || ६४ ।। प्रतिजागरितव्यं किं कपिलाया इति ब्रु( १ ) अलम् | For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy