________________
Jain Education Intern
व्यसनानि दुःखानि तान्येव वल्लयस्तासाम्, लोभश्चतुर्थकषायः, तस्य स्वरूपसंग्रहमाह - सर्वार्थबाधकः सर्वेषामर्थ्यन्त इत्यर्था धर्मार्थकाममोक्षलक्षणास्तेषां बाधकः प्रतिकूलः । लोभस्य सर्वदोषाकरत्वम्, गुणघातकत्वम्, व्यसन हे - तुत्वं, सर्व पुरुषार्थघातकत्वं च प्रसिद्धमेव ।। १८ ।।
लोभस्य दुर्जयत्वं श्लोकत्रयेणाह -
धनहीनः शतमेकं सहस्रं शतवानपि । सहस्राधिपतिर्लक्षं कोटिं लक्षेश्वरोऽपि च ॥ १६ ॥ कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ॥२०॥ इन्द्रत्वेऽपि हि संप्राप्ते यदिच्छा न निवर्तते । मूले लघीयांस्तलोभः सराव इव वर्धते ॥ २१ ॥
स्पष्टम् अत्रान्तरश्लोकाः—
हिंसे सर्वपापानां मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगाणां लोभः सर्वागसां गुरुः ॥ १ ॥ अहो ! लोभस्य साम्राज्यमेकच्छत्रं महीतले । तरवोऽपि निधिं प्राप्य पादैः प्रच्छादयन्ति यत् ॥ २ ॥ अपि द्रविण लोभेन ते द्वित्रिचतुरिन्द्रियाः । स्वकीयान्यधितिष्ठन्ति प्राग्निधानानि मूर्च्छया || ३ || भुजङ्गगृहगोधाखुमुख्याः पश्चेन्द्रिया अपि । धनलोभेन लीयन्ते निधानस्थानभूमिषु ॥ ४ ॥ पिशाचमुद्गलप्रेतभूतयक्षादयो धनम् । स्वकीयं परकीयं वाऽप्यधितिष्ठन्ति लोभतः || ५ || भूषणोद्यानवाप्यादौ मूर्च्छितास्त्रिदशा अपि । च्युत्वा तत्रैव जायन्ते पृथ्वी काया दियोनिषु || ६ || प्राप्योपशान्तमोहत्वं क्रोधादिविजये सति । लोभांशमात्रदोषेण पतन्ति यतयोऽपि
For Personal & Private Use Only
+-*-*-**
0-11-06-1.01
www.jainelibrary.org