SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥२८॥ मृत्युपदमार्जवं ब्रह्मणः पदम् । एतावाज्ञानविषयः प्रलापः किं करिष्यति? ॥२॥ इति ॥ भवेयुरार्जवजुषो लोकेऽपि चतुर्थः प्रीतिकारणम् । कुटिलादुद्विजन्ते हि जन्तवः पनगादिव ॥३॥ अजिह्मचित्तवृत्तीनां भववासस्पृशामपि । अकृत्रिम प्रकाशः। मुक्तिसुखं स्वसंवेद्यं महात्मनाम् ।। ४ ॥ कौटिल्यशङ्कुना लिष्टमनसां वश्चकात्मनाम् । परव्यापादनिष्ठानां स्वमेऽपि स्यात् कुतः सुखम् ॥ ५ ।। समग्रविद्यावै दुष्येऽधिगतासु कलासु च । धन्यानामुपजायेत बालकानामिवार्जवम् ॥६॥ अज्ञानामपि बालानामार्जवं प्रीतिहेतवे । किं पुनः सर्वशास्त्रार्थपरिनिष्ठितचेतसाम् १ ॥ ७॥ स्वाभाविकी हि ऋजुता कृत्रिमा कुटिलात्मता । ततः स्वाभाविकं धर्म हित्वा का कृत्रिमं श्रयेत् ॥८॥ छलपैशुन्यवक्रोक्तिवञ्चनाप्रवणे जने । धन्याः केचिद् निर्विकाराः सुवर्णप्रतिमा इव ॥३॥ श्रुताब्धिपारप्राप्तोऽपि गौतमो गणभूद्वरः। अहो! शैक्ष इवाश्रीषीदार्जवाद् भगवद्गिरः ॥ १०॥ अशेषमपि दुष्कर्म ऋज्वालोचनया क्षिपेत् । कुटिलालोचना कुर्वचल्पीयोऽपि विवर्धयेत् ॥ ११ ॥ काये वचसि चित्ते च समन्तात् कुटिलात्मनाम् । न मोक्षः किन्तु मोक्षः स्यात् सर्वत्राकुटिलात्मनाम् ॥ १२ ॥ इति निगदितमग्रं कर्म कौटिल्यभाजा-मृजुपरिणतिभाजां चानवा चरित्रम् । तदुभयमपि बुद्ध्या संस्पृशन् मुक्तिकामो, निरुपममृजुभावं संश्रयेच्छुद्धबुद्धिः ।। १३ ॥ १७ ॥ इदानीं लोभकषायस्वरूपमाहपाकरः सर्वदोषाणां गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां लोभः सर्वार्थबाधकः ॥ १८॥ आकरः खानिः सर्वदोषाणां प्राणातिपातादीनां ' लोहादीनामिव' इति गम्यते; गुणानां ज्ञानादीनां प्राणिनामिव यद् ग्रसनं कवलनं तत्र राक्षस इव राक्षसः; तथा कन्दो मूलाधोऽवयवः, कासां व्यसनवल्लीनां IT ॥२८॥ "१२ ॥ इति निच समन्तात् कुटिलासाचनया क्षिपेत् । कुटिलावद्धर JanEducation int For Personal & Private Use Only worm.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy