SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ चतुर्थः योगशास्त्रम् प्रकाशा २८६॥ * हि ।। ७ ।। एकामिपाभिलाषेण मारमेया इव द्रुतम् । सोदर्या अपि युध्यन्ते धनलेशजिघृक्षया ॥८॥ लोभाद् ग्रामाद्रिसीमानमुद्दिश्य गतसौहृदाः । ग्राम्या नियुक्ता राजानो वैरायन्ते परस्परम् ।। ३ । हासशोकद्वेषहर्षानसतोऽप्यात्मनि स्फुटम् । स्वामिनोऽग्र लोभवन्तो नाटयन्ति नटा इव ॥ १० ॥ प्रारभ्यते पूरयितुं लोभगतॊ यथा यथा। तथा तथा महच्चित्रं मुहुरेष विवर्धते ॥ ११ ॥ अपि नामैप पूर्येत पयोभिः पयसां पतिः। न तु त्रैलोक्यराज्येऽपि *प्राप्ते लोभः प्रपूर्यते ॥ १२॥ अनन्ता भोजनाच्छादविषयद्रव्यसंचयाः । भुक्तास्तथापि लोभस्य नांशोऽपि परिपूर्यते ॥ १३ ॥ लोभस्त्यक्तो यदि तदा तपोभिरफलैरलम । लोभस्त्यक्तो न चेत् तर्हि तपोभिरफलैरलम् ॥१४॥ मृदित्वा शास्त्रसर्वस्वं मयैतदवधारितम् । लोभस्यैकस्य हानाय प्रयतेत महामतिः ॥१३॥१६॥२०॥२१॥ लोभस्वरूपं निरूप्य तज्जयोपायमुपदिशतिलोभसागरमुढेलमतिवेलं महामतिः ! संतोषसेतुबन्धेन प्रसरन्तं निवारयेत् ॥ २२ ॥ लोभ एवाप्राप्तपारत्वेन सागरस्तम्, उद्वेलमुद्दतवेलं तत्तदुत्कलिकावत्वेन विवृद्धोच्छायम्, अतिवेलं भृशम्, । एतच्च 'निवारयेत्' इति क्रियाया विशेषणम् । 'प्रसरन्तम्' इति लोभसागरस्य विशेषणम् । महामतिर्मुनिः। निवारण कारणमुपदिशति-संतोषसेतुबन्धेन संतोषो लोभप्रतिपक्षभूतो मनोधर्मः स एव सेतुबन्धो जलस्खलनार्थ पाल बन्धः, तेन प्रतिपक्षभूतेन संतोषेण लोभकषायं निरुन्ध्यादिति भावः । अत्रान्तरश्लोकाः यथा नृणां चक्रवर्ती सुराणां पाकशासनः। तथा गुणानां सर्वेषां संतोषः प्रवरो गुणः॥१॥ संतोषयुक्तस्य यतेरसंतुष्टस्य चक्रिणः । तुलया संमितो मन्ये प्रकर्षः सुखदःखयोः॥२॥ स्वाधीनं राज्यमुत्सृज्य संतोषामृ H॥२८६॥ For Personal & Private Use Only in Education inte www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy