SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ योग द्वितीयः प्रकाशः। शास्त्रम् ॥१४२॥ दुत्कर्षश्च हीनसंपदमसन्तुष्टं दुःखाकरोति । यदाह असन्तोषवतां पुंसामपमानः पदे पदे । सन्तोषैश्वर्यसुखिनां रे दुर्जनभूमयः ॥१॥ अविश्वासः खल्वपि दुःखकारणम् , अविश्वस्तो ह्यशङ्कनीयेभ्योऽपि शङ्कमानः स्वधनस्य रक्षां कुर्वन्न कचिद्विश्वसिति । यदाह उक्खणइ खणइ निहणइ रतिं न सुबइ दिआ वि अ ससंको। लिंपइ ठवेइ सययं लंछियपडिलंछियं कुणह॥१॥ म परिगतश्चारम्भं प्राणातिपातादिकं प्रतिपद्यते । तथाहि तनयः पितरं पिता च तनयं भ्राता च भ्रातरं हिनस्ति, गृहीतलञ्चश्च कूटसाक्षित्वदायी बहनृतं भाषते, बलप्रकर्षात्पथिकजनं मुष्णाति, खनति खात्रं, गृह्णाति विन्दं, धनलोभात् परदारानभिगच्छति, तथा सेवाकृषिपाशुपाल्यवाणिज्यादि च करोति । मम्मणवणिगिव नद्यादिषु प्रविश्य काष्ठान्याकर्षति । ननु दुःखकारणं मूर्छाफलं ज्ञात्वा परिग्रहनियन्त्रणं कुर्यादिति केयं वाचो युक्तिः। उक्तमत्र-मूर्छाकारणत्वात् परिग्रहोऽपि मुथैव, अथवा "मूर्छा परिग्रहः" इति सूत्रकारवचनात् मूच्र्छव परिग्रह इति निश्चयनयमतेनोच्यते, मूछामन्तरेण धनधान्यादेरपरिग्रहत्वात् । यदाह अपरिग्रह एव भवेद्वस्त्राभरणाघलङ्कृतोऽपि पुमान् । ममकारविरहितः सति ममकारे सङ्गवानग्नः ॥१॥ तथा (१) उत्खनति खनति निहन्ति रात्रिं न स्वपिति दिवाऽपि च सशङ्कः । लिम्पति स्थापयति सततं लाञ्छितप्रतिलाञ्छितं करोति ॥ १॥ (२) 'बन्दं ' इति प्रत्यन्तरपाठः साधीयान् । ॥१४॥ Jain Education intematarel For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy