________________
ग्रामं गेहं च विशन् कर्म च नोकर्म चाददानोऽपि । अपरिग्रहोऽममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥१॥ तथा
'जं पि वत्थं व पायं वा कंबलं पायपुंछणं । तं पि संजमलजट्ठा धारंति परिहरंति ॥१॥ नै सो परिग्गहो वुत्तो नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो इइ वृत्तं महेसिणा ॥२॥
इति सर्वमवदातम् ॥ १०६ ॥ प्रकारान्तरेण परिग्रहनियन्त्रणमाहपरिग्रहमहत्त्वाद्धि मज्जत्येव भवाम्बुधौ। महापोत इव प्राणी त्यजेत्तस्मात् परिग्रहम्॥१०७॥ ॐ
परिगृह्यत इति परिग्रहो धनधान्यादिस्तस्य महत्त्वं निरवधित्वं तस्माद्धेतोः मन्जत्येव, अवश्यमेव मजति, प्राणी शरीरी, भवे संसारे क इव क ? अम्बुधौ समुद्रे महापोत इव महायानपात्रमिव, यथा निरवधिधनधान्यादिमाराकान्तः | पोतः समुद्रे मजति, तथैवापरिमितपरिग्रहः प्राणी नरकादौ निमजति । यदाहु:
“महारंभयाए महापरिग्गयाए कुणिमाहारेणं पंचिंदियवहेणं जीवा नरयाउयं अजंति"। तथा बहारम्भपरिग्रहत्वं च नारकस्यायुष इति यस्मादेवं तस्मात्त्यजेनियन्त्रयेत परिग्रहं धनधान्यादिरूपं मृ.रूपं वा ॥१०७॥
(१) यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादप्रोञ्छनम् । तदपि संयमलज्जार्थ धारयन्ति परिभुञ्जते च ॥१॥ (२) न स परिग्रह उक्तः ज्ञातपुत्रेण तायिना | मूर्छा परिग्रह उक्तः इत्युक्तं महर्षिणा ॥ २॥ (१) महारम्भतया महापरिग्रहतया कुणिमाहारेण पञ्चेन्द्रियवधेन जीवा नरकायुष्कमर्जन्ति ।
Jan Education inten
For Personal & Private Use Only
www.jainelibrary.org