SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥२०३॥ वा, अन्त्यत्रयं तु मायावितया अतिचारतां याति । अत्र दिगव्रतसंक्षेपकरणवद् व्रतान्तराणामपि संक्षेपकरणं देशा-|| तृतीयः ता वकाशिकव्रतमिति वृद्धाः । अतिचाराश्च दिगव्रतकरणस्यैव श्रूयन्ते न व्रतान्तरसंक्षेपकरणस्य, तत्कथं व्रतान्तरसं प्रकाशः। क्षेपकरणं देशावकाशिकव्रतम् ? अत्रोच्यते-प्राणातिपातादिविरमणव्रतान्तरसंक्षेपकरणेषु वधबन्धादय एवातिचाराः, दिगवतसंक्षेपकरणे तु संक्षिप्तत्वात् क्षेत्रस्य, प्रेष्यप्रयोगादयोऽतिचाराः । भिन्नातिचारसम्भवाच्च दिगवतसंक्षेपकरणस्यैव देशावकाशिकत्वं साक्षादुक्तमिति ॥ ११७॥ अथ पोषधव्रतस्यातिचारानाहउत्सर्गादानसंस्ताराननवेक्ष्याप्रमृज्य च । अनादरः स्मृत्यनुपस्थापनं चेति पोषधे ॥११८॥ ___उत्सर्जनमुत्सर्गस्त्याग उच्चारप्रस्रवणखेलसिंघाणकादीनामवेक्ष्य प्रज्य च स्थण्डिलादौ उसंगः कार्यः । अवेक्षणं चक्षुषा निरीक्षणम् । प्रमार्जनं वस्त्रप्रान्तादिना स्थण्डिलादेरेव विशुद्धीकरणम् । अथानवेक्ष्याप्रमृज्य चोत्सर्ग करोति तदा पोषधव्रतमतिचरतीति प्रथमोऽतिचारः १ । आदानं ग्रहणं यष्टिपीठफलकादीनाम, तदप्यवेक्ष्य प्रमृज्य च कार्यम् , अनवेचितस्याप्रमार्जितस्य चादानमतिचारः। आदानग्रहणेन निक्षेपोऽप्युपलक्ष्यते यष्ट्यादीनाम् , तेन सोऽप्यवेक्ष्य प्रमाय॑ च कार्यः; अनवेक्ष्याप्रमृज्य च निक्षपोऽतिचार इति द्वितीयः २ । तथा संस्तीर्यते यः प्रतिपनपोषधव्रतेन दर्भकुशकम्बलिवस्त्रादिः स संस्तारः, स चावेक्ष्य प्रमाय॑ च कर्तव्यः, अनवेक्ष्याप्रमाय च करणऽतिचारः । इह चानवेक्षणेन दुरवेक्षणम् , अप्रमार्जनेन दुष्प्रमार्जनं सगृह्यते, नबः कुत्सार्थस्याऽपि दर्शनात् , यथा कुत्सितो ब्राह्मणोऽब्राह्मणः। IN२०३॥ Jain Education intended For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy