SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ योग चतुर्थः शास्त्रम् प्रकाशः। ।।३१२॥ करिष्यामि' इति प्रत्याख्यानम् । मिश्रमालोचनप्रतिक्रमणरूपम् , प्रागालोचन पश्चाद गुरुसन्दिष्टेन प्रतिक्रमणम् । विवेकः संसक्तानपानोपकरणशय्यादिविषयस्त्यागः। व्युत्सर्गोऽनेपणीयादिषु त्यक्तेषु गमनागमनसावद्यस्वमदर्शननौसन्तरणोच्चारप्रश्रवणेषु च विशिष्टप्रणिधानपूर्वकः कायवाल्मनोव्यापारत्यागः । तपस्तु च्छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा येन केनचित तपसा विशुद्धिर्भवति तत तद् देयमासेवनीयं च । छेदस्तपसा दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनम् । मूलं महाव्रतानां मूलत आरोपणम् । तथा अवस्थाप्यत इत्यवस्थाप्यस्तनिषेधादनवस्थाप्यस्तस्य भावोऽनवस्थाप्यता दुष्टतरपरिणामस्याकृततपोविशेषस्य व्रतानामारोपणम् , तपः कर्म चास्योत्थाननिषदनादिकर्मकरणाशक्तिपर्यन्तम् । स हि यदोत्थानाद्यपि कर्तुमशक्तस्तदाऽन्यान् प्रार्थयते-'पार्याः ! उत्थातुमिच्छामि' इत्यादि । ते तु तेन सह संभाषणमकुर्वाणास्वत्कृत्यं कुर्वन्ति, यदाह उडिज निसीअज व भिक्खं हिंडिज मत्तगं पेहे । कविप्रपिप्रबंधवस्स करेइ इयरो वि तुसिणीओ ॥ १॥ एतावति तपसि कृते तस्योत्थापना क्रियते । (१) उत्तिट निषीद वा भिक्षां हिण्ड मात्रकं प्रेक्षस्व । कुपितप्रियबान्धवस्य करोतीतरोऽपि तूष्णीकस्तु ॥ १॥ ॥३१२॥ For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy