________________
तथा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावात् , अपराधानां वा पारमश्चति गच्छतीत्येवंशीलं पाराश्चि तदेव पाराश्चिकम् । तच्च महत्यपराधे लिङ्गकुलगणसंघेभ्यो बहिष्करणम् ।
एतच छेदपर्यन्तं प्रायश्चित्तं व्रणचिकित्सातुल्यं पूर्वसूरिभिरभिहितम् । तत्र तनुरतीक्ष्णमुखो रुधिरमप्राप्तस्त्वग्लग्नः शल्यो देहादुध्रियते, न तत्र व्रणस्य मर्दनं विधीयते शल्याल्पत्वेन व्रणस्याल्पत्वात् । द्वितीये तु लग्नोध्धृतशल्ये मर्दनं क्रियते न तु कर्णमलेन पूर्यते । तृतीये तु दूरतरगतशल्ये शल्योद्धारमलनकरणमलपूरणानि क्रियन्ते । चतुर्थे तु शल्यकर्षणमर्दनरुधिरगालनानि वेदनापहारार्थ क्रियन्ते । पञ्चमे तु गाढतरावगाढशल्योद्धरणं, ततो गमनादिचेष्टा निवार्यते । षष्ठे हितमित भोज्यभोजनोऽभोजनो वा शल्योद्धारानन्तरं भवति । सप्तमे तु शन्योद्धारानन्तरं यावच्छल्येन मांसादिदषितं तावत् छिद्यते, गोनसभक्षितादौ पादवल्मीके वा पूर्वोक्तक्रियाभिरनुपशमाद् विसर्पति; अङ्गच्छेदः सहास्थ्ना शेषरक्षणार्थ विधीयते । एवं द्रव्यव्रणदृष्टान्तेन मृलोत्तरगुणरूपस्य चारित्रपुरुषस्यापराधरूपो व्रण आलोचनादिना छेदान्तेन प्रायश्चित्तविधिना शोधनीयः, यदाहुर्भगवद्भद्रबाहुस्वामिपादाः
तणुप्रो अतिक्खतुंडो असोणियो केवलं तयालग्गो । उद्धरिउं अवउज्झइ मल्लो न मलिजइ वणो उ॥१॥
लग्गुद्धियम्मि बीए मलिजइ परं अदूरगे सल्ले । उद्धरणमलणपूरण दूरयरगए तइयगम्मि ॥ २॥ | (१) तनुकोऽतीक्ष्णतुण्डोऽशोणितः केवलं त्वग्लग्नः । उध्धृत्यापत्यज्यते शल्यो न मृद्यते व्रणस्तु ॥१॥ लग्नोध्धृते द्वितीये मृद्यते परमदूरगे शल्ये । उद्धरणमलनपूरणानि दूरतरगते तृतीयके ॥२॥
For Personal & Private Use Only
Jain Education internate
ww.jainelibrary.org