SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ शाकानादिस्वरूपवेदिनाऽपि रुचिरहितेन न सौहित्यलक्षणं फलमवाप्यते । श्रुतज्ञानवतोऽप्यङ्गारमर्दकादेरभव्यस्य दरभव्यस्य वा जिनोक्ततत्त्वेषु रुचिरहितस्य न विवक्षितं फलमुपश्रूयते । तस्य चोत्पादे द्वयी गतिः निसर्गोऽधिग.मश्च । निसर्गः स्वभावो गुरूपदेशादिनिरपेक्षः सम्यश्रद्धानकारणम् । तथाहि___अनाद्यनन्तसंसारावर्त्तवर्तिषु देहिषु । ज्ञानदृष्ट्यावृतिवेदनीयान्तरायकर्मणाम् ॥ १॥ सागरोपमकोटीनां कोट्यस्त्रिंशत्परा स्थितिः। विंशतिर्गोत्रनाम्नोश्च मोहनीयस्य सप्ततिः ॥२॥ ततो गिरिसरिद्वावघोलनान्यायतः स्वयम् । एकाब्धिकोटिकोटथूना प्रत्येक क्षीयते स्थितिः॥३॥ शेषाधिकोटिकोट्यन्तःस्थितौ सकलजन्मिनः । यथाप्रवृत्तिकरणाद्रन्थिदेशं समियरति॥ ४ ॥ रागद्वेषपरीणामो दुर्मेदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतरः काष्ठादेरिव सर्वदा ॥५॥ ग्रन्थिदेशं तु संप्राप्ता रागादिप्रेरिताः पुनः । उत्कृष्टबन्धयोग्याः स्युश्चतुर्गतिजुषोऽपि ते ॥६॥ तेषां मध्ये तु ये भव्या भाविभद्राः शरीरिणः । आविष्कृत्य परं वीर्यमपूर्वकरणे कृते ॥७॥ अतिक्रामन्ति सहसा तं ग्रन्थि दुरतिक्रमम् । अतिक्रान्तमहाध्वानो घट्टभूमिमिवाध्वगाः ॥८॥ अथानिवृत्तिकरणादन्तरकरणे कृते । मिथ्यात्वं विरलीकुयुर्वेदनीयं यदग्रतः ॥8॥ अन्तर्महर्तिकं सम्यगदर्शनं प्राप्नुवन्ति यत् । निसर्गहेतुकमिदं सम्यक्श्रद्धानमुच्यते ॥ १०॥ गुरूपदेशमालम्ब्य सर्वेषामपि देहिनाम् । यत्तु सम्यश्रद्धानं तत्स्यादधिगम परम् ॥ ११॥ यमप्रशमजीवातुर्वीजं ज्ञानचरित्रयोः । हेतुस्तप:श्रुतादीनां सदर्शनमुदीरितम् ॥ १२॥ श्लाध्य हि चरणज्ञानवियुक्तमपि दर्शनम् । न पुन नचारित्रे मिथ्यात्वविषदक्षिते ॥ १३॥ ज्ञानचारित्रहीनोऽपि श्रूयते १ तृप्तिलक्षणम्. २ नदीतीरभूमिम्. in Education international For Personal Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy