SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रथम: प्रकाशः। बोग- श्रेणिकः किल । सम्यग्दर्शनमाहात्म्यातीर्थकत्वं प्रपत्स्यते॥१४॥ अधृतचरणबोधाः प्राणिनो यत्प्रभावा-दसमसशास्त्रम् खनिधानं मोक्षमासादयन्ति। भवजलनिधिपोतं दुःखकान्तारदावम्, श्रयत तदिह सम्यग्दर्शनं रत्नमेकम् ॥१५॥१७॥ | . तृतीयं रत्नमाह॥३९॥ सर्वसावद्ययोगानां त्यागश्चारित्रमिष्यते। कीर्तितं तदहिंसादिवतभेदेन पञ्चधा ॥१८॥ सर्वे न तु कतिपये ये सावधयोगाः सपापव्यापारास्तेषां त्यागो ज्ञानश्रद्धानपूर्वकं परिहारः स सम्यक्चारित्रं ज्ञानदर्शनविनाकृतस्य चारित्रस्य सम्यक्चारित्रत्वानुपपत्तेः । सर्वग्रहणं देशचारित्रव्यवच्छेदार्थम् । इदं च चारित्रं मूलोत्तरगुणभेदेन द्विविधं कीर्तितमित्यादिना मूलगुणरूपं चारित्रमाह। पञ्चधेति व्रतभेदेन, न तु स्वरूपतः ॥१८॥ मूलगुणानेव कीर्चयतिअहिंसासूनृतास्तेयब्रह्मचर्यापरिग्रहाः । पञ्चभिः पञ्चभिर्युक्ता भावनाभिविमुक्तये ॥ १९ ॥ अहिंसादयश्च पश्चापि प्रत्येकं पञ्चविधभावनाभ्यर्हिताः सन्तः स्वकार्यजननं प्रति अप्रतिबद्धसामर्थ्या भवजन्तीति पञ्चभिरित्याद्युक्तम् ॥ १६॥ प्रथमं मूलगुणमाहन यत्प्रमादयोगेन जीवितव्यपरोपणम् । त्रसानां स्थावराणां च तदहिंसाव्रतं मतम् ॥२०॥ प्रमादोज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशयोगदुष्प्रणिधानधर्मानादरभेदादष्टविधः । तद्योगात्रसानां स्थाराणां च जीवानां प्राणन्यपरोपणं हिंसा । तनिषेधादहिंसा प्रथमं व्रतम् ॥२०॥ ॥३६॥ in Education For Personal & Private Use Only | www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy