________________
योगशास्त्रम्
॥२६३॥
भवान्युन्मलायितुमात्मनः । यास्यामि गुरुपादान्ते धर्मलाभस्तवान! ।। ६२ ॥ कोशापि तमुवाचैवं मिथ्या मे द-|||
तृतीयः कृतं त्वयि । ब्रह्मव्रतस्थयाप्येवं मया यदसि खेदितः॥६३॥ आशातनेयं युष्माकं बोधहेतोर्मया कृता । क्षन्तव्या
प्रकाशः। मा गुरुवचः श्रयध्वं यात सत्वरम् ॥ ६४ ॥ इच्छामीति भणित्वा च गुवेन्तिकमुपेत्य सः । गृहीत्वालोचनां तीक्षणमाचचार पुनस्तपः ॥ ६५ ।। राज्ञा प्रदत्ता कोशापि तुष्टेन रथिनेऽन्यदा । राजायत्तेति शिश्राय विना रागेण सा तु तम् ।। ६६ ॥ स्थूलभद्रं विना नान्यः पुमान् कोऽपीत्यहनिशम् । सा तस्य रथिनोऽभ्यणे वर्णयामास वर्णिनी॥ ६७॥ रथी गत्वा गृहोद्याने पर्यके च निषद्य सः । तन्मनोरञ्जनायेति स्वविज्ञानमदर्शयत् ॥ ६८ ॥ माकन्दलुम्बी बाणेन विव्याध तमपीषुणा । पुढेऽन्येन तमप्यन्येनेत्याहस्तं शरान्यभूत् ॥ ६६ ॥ वृन्तं छित्वा चुरप्रेण बाणश्रेणिमुखास्थिताम् । लुम्बी स्वपाणिनाऽऽकृप्यासीनस्तस्यै स आर्पयत् ।। ७० ॥ इदानीं मम विज्ञानं पश्येत्यालप्य सापि हि । व्यधत्त सार्षपं राशि तस्योपरि ननत च ॥ ७१ ॥ सूची क्षिप्वा तत्र राशौ पुष्पपत्रैः पिधाय ताम् । सा नर्त च नो सूच्या विद्धा राशिश्च न चतः ॥ ७२ ।। ततः स ऊचे तुष्टोऽस्मि दुष्करणामुना तव । याचस्व यद् ममायत्तं ददामि तदहं ध्रुवम् ॥ ७३ ।। सोवाच किं मयाऽकारि दुष्करं येन रञ्जितः । इदमप्यधिकं चासात् किमभ्यासेन दुष्करम् ? ॥ ७४ ॥ किश्चाम्रलुम्बीच्छेदोऽयं नृत्यं चेदं न दुष्करम् । अशिक्षितं स्थूलभद्रो यच्चक्रे तत्तु दुष्करम् ॥ ७५ ॥ द्वादशान्दानि बुभुजे भोगान् यत्र समं मया। तत्रैव चित्रशालायां तस्थौ सोऽखण्डितव्रतः ॥ ७६॥ दुग्धं नकुलसंचारादिव स्त्रीणां प्रचारतः । योगिनां दप्यते चेतः स्थूलभद्रमुनि विना ॥ ७७॥ दिनमेकमपि स्थातुं कोऽलं स्त्रीसंनिधौ तथा ? । चतुर्मासीं यथा तस्थौ स्थूलभद्रोऽ- |२६३॥
Lain Education inte
For Personal & Private Use Only
www.jainelibrary.org