________________
Jain Education Internati
क्षतव्रतः ॥ ७८ ॥ श्राहारः पद्रसश्चित्रशालावासोऽङ्गनान्तिके । अप्येकं व्रतलोपायान्यस्य लोहतनोरपि ॥ ५६ ॥ विलीयन्ते धातुमयाः पार्श्वे वद्धेरिव स्त्रियाः । स तु वज्रमयो मन्ये स्थूलभद्रो महामुनिः ॥ ८० ॥ स्थूलभद्रं महासत्त्वं कृतदुष्करदुष्करम् । व्यावर्ण्य युक्ता सुदैव मुखे वर्णयितुं परम् ॥ ८१ ॥ रथको पप्रच्छ य एवं वर्ण्यते त्वया । को नाम स्थूलभद्रोऽयं महासन्वशिरोमणिः १ ॥ ८२ ॥ साऽप्यूचे शकटालस्य नन्दभूपालमन्त्रिणः । तनयः स्थूलभद्रोऽयं तवाग्रे वर्णयामि यम् ॥ ८३ ॥ तच्छ्रुत्वा सोऽपि संभ्रान्त इत्युवाच कृताञ्जलिः । एषोऽस्मि किङ्करस्तस्य स्थूलभद्रमहामुनेः ॥ ८४ ॥ संविग्नं साथ तं ज्ञात्वा विदधे धर्मदेशनाम् । प्रत्यबुध्यत सद्बुद्धिर्मोहनिद्रामपास्य सः ॥ ८५ ॥ प्रतिबुद्धं च तं बुध्ध्वा साऽऽख्यद् निजमभिग्रहम् । तत् श्रुत्वा विस्मयोत्फुल्ललोचनः सोऽब्रवीदिदम् ॥ ८६ ॥ बोधितोऽहं त्वया भद्रे ! स्थूलभद्रगुणोक्तिभिः । यास्यामि तस्य पन्थानं भवत्यैवाद्य दर्शितम् || ८७ || कल्याणमस्तु ते भद्रे ! पालय स्वमभिग्रहम् । उक्तवैवं सद्गुरोः पार्श्वे गत्वा दीक्षां स ददे ॥ ८८ ॥ भगवान् स्थूलभद्रोऽपि तीव्रं व्रतमपालयत् । द्वादशाब्दप्रमाणश्च दुष्कालः समभूत्तदा ||८|| तीरं नीरनिधेर्गत्वा साधु संघोऽखिलोऽप्यथ । गमयामास दुष्कालं करालं कालरात्रिवत् ॥ ९० ॥ श्रगुण्यमानं तु तदा साधूनां विस्मृतं श्रुतम् । अनभ्यसनतो नश्यत्यधीतं धीमतामपि ॥ ६१ ॥ संघोऽथ पाटलीपुत्रे समवायं विनिर्ममे । येदङ्गाध्ययनोद्देशाद्यासीद् यस्य तदाददे ॥ ६२ ॥ ततश्चैकादशाङ्गानि श्रीसंघोऽमेलयत्तदा । दृष्टिवादनिमित्तं च तस्थौ किञ्चिद् विचिन्तयन् ॥६३॥ संघोऽस्मरद् भद्रबाहोर्दृष्टिवादभृतस्ततः । तदानयनहेतोश्च प्रजिघाय मुनिद्वयम् ॥ ६४ ॥ गत्वा नत्वा मुनी तौ तमित्यूचाते कृताञ्जली । समादिशति वः संघस्तत्रागमनहेतवे ॥ ६५ ॥
For Personal & Private Use Only:
*******++
www.jainelibrary.org