SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः। योग- HI सोऽप्युवाच महाप्राणध्यानमारन्धमस्ति यत् । भविष्यति ततो हेतोर्न तत्रागमनं मम ॥ ६ ॥ तद्वचस्तौ सुनी गत्वा संघस्याशंसतामथ । संघोऽप्यपरमाहूयादिदेशेति मुनिद्वयम् ॥१७॥ गत्वा वाच्यः स आचार्यों यः श्रीसंघस्य शास्त्रम् शासनम् । न करोति भवेत् तस्य दण्डः क इति शंस नः ॥ ६८ ॥ संघबाह्यः स कर्तव्य इति वक्ति यदा स तु । ॥२६४ । तर्हि तद्दण्डयोग्योऽसीत्याचार्यों वाच्य उच्चकैः ॥ १६ ॥ ताभ्यां गत्वा तथैवोक्त आचार्योऽप्येवमृचिवान् । मैवं * करोतु भगवान् संघः किन्तु करोत्वदः॥ २०॥ मयि प्रसादं कुर्वाणः श्रीसंघः प्रहिणोत्विह । शिष्यान् मेधाविनस्तेभ्यः सप्त दास्यामि वाचनाः ॥१॥ तत्रैकां वाचनां दास्ये भिक्षाचर्यात आगतः । अन्यां च कालवेलायां बहिर्भूम्यागतोऽपराम् ॥ २॥ अन्यां विकालवेलायां तिस्र आवश्यके पुनः । सेत्स्यत्येवं संघकार्य मत्कार्यस्थावि. बाधया ॥३॥ ताभ्यामेत्य तथाख्याते श्रीसंघोऽपि प्रसादभाक् । प्राहिणोत् स्थूलभद्रादिसाधुपञ्चशतीं ततः॥४॥ तान् सूरिचियामास तेऽप्यल्पा वाचना इति । उद्भज्येयुर्निजं स्थानं स्थूलभद्रस्त्ववास्थित ॥ ५॥ नोद्भज्यसे किमित्युक्तः सूरिणा सोब्रवीदिदम् । नोद्भज्ये भगवन् ! किन्तु ममाल्पा एव वाचनाः॥६॥ सूरिरूचे मम ध्यानं पूर्णप्रायमिदं ततः। तदन्ते वाचनास्तुभ्यं प्रदास्यामि त्वदिच्छया॥७॥ पूर्णे ध्याने ततः सूरिरिच्छया तमवाचयत् । द्विवस्तूनानि पूर्वाणि दश यावत् पपाठ सः॥८॥ विहारक्रमयोगेन पाटलीपुत्रपत्तनम् । श्रीभद्रबाहुरागत्य बाह्योद्यानमशिश्रियत ॥ ६॥ विहारक्रमयोगेन तिन्योऽत्रान्तरे तु ताः । भगिन्यः स्थूलभद्रस्य वन्दनाय समाययुः ॥ १०॥ वन्दित्वा गुरुमूचुस्ताः स्थूलभद्रः कनु प्रभो ! । इहापवरकेऽस्तीति तासां सूरिः शशंस च ॥ ११ ॥ |1| ततस्तममिचेलुस्ताः समायान्तीविलोक्य सः। आश्चर्यदर्शनकृते सिंहरूपं विनिर्ममे ॥१२।। दृष्ट्वा सिंहं तु भीताम: ॥२६४॥ Jain Education intem -1 For Personal & Private Use Only Hिww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy