SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ | सङ्गाद्भवन्त्यसन्तोऽपि रागद्वेषादयो द्विषः।मुनेरपि चलेच्चेतो यत्तेनान्दोलितात्मनः॥१०९॥ सङ्गात्परिग्रहाद्धेतोर्भवन्ति प्रादुर्भवन्ति असन्तोऽपि उदयावस्थामप्राप्ता अपि रागद्वेषप्रभृतयः शत्रवः । सङ्गवतो हि तन्निवन्धनो रागः प्रादुर्भवति । सङ्गप्रतिपन्थिषु च द्वेषः, एवं मोहभयादयो वधबन्धादयो नरकपातादयश्च द्रष्टव्याः। तदिदं पर्वतस्थूलत्वं दोषाणाम् । कथमसन्तोऽपि रागादयो भवन्तीति ? उच्यते-यत यस्सान्सुनेरपि प्रास्तामन्यस्य चले प्रशमावस्थायाश्यवेत् चेतो मनः तेन सङ्गेन आन्दोलितात्मनः अस्थिरीकुतात्मनः। मुनिरपि हि सङ्गानङ्गीकुर्वन्मुनित्वाद् भ्रश्यत्येव । यदाह 'छेओ भेओ वसणं आयासकिलेसभयविवागो अ। मरणं धम्मभंसो अरई अत्थाओ सव्वाइं ॥१॥ दोससयमूलजालं पुवरिसिविवज्जियं जई वंतं । अत्थं वहसि अणत्थं कीस निरत्थं तवं चरसि ॥२॥ वैहबंधणमारणसेहणाओ काो परिग्गहे णत्थि। जब परिग्गहो चिय जइधम्मो तो णा पवंचो॥३॥१०॥ सामान्येन परिग्रहस्य दोषानभिधाय प्रकृतेन श्रावकधर्मेणामिसंबनातिसंसारमूलमारम्भास्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्यादल्पमल्पं परिग्रहम् ॥११०॥ | (१) छेदो भेदो व्यसनं आयासक्लेशभयविपाकाश्च । मरणं धर्मभ्रंशः अरतिरर्थात् सर्वाणि ॥१॥ (२) दोषशतमूलजालं पूर्वर्षिविवर्जितं यदि वान्तम् । अर्थ वहसि अनर्थ कस्मानिरर्थे तपश्चरसि ॥ २॥ (३) वधबन्धनमारणसेघनाः काः परिग्रहे न सन्ति । तद् यदि परिग्रह एव यतिधर्मस्ततो ननु प्रपश्चः ॥ ३॥ Jain Education inter For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy