SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ योग शाखम् ॥ १४४ ॥ -19-04 Jain Education International रम्भाः प्राप्युपमर्दादयस्ते संसारस्य मूलम् एतदविवादसिद्धं ततः किं तेषामारम्भाणां हेतुः कारणं ? परिग्रहः, यत एवं तस्मादुपासकः साधूपासकः परिग्रहं धनधान्यादिकमल्पमन्यं नियतपरिमाणं कुर्यात् ॥ ११० ॥ पुनरपि सिंहावलोकितेन परिग्रहदोषानाह - मुष्णन्ति विषयस्तेना दहति स्मरपावकः । रुन्धन्ति वनिताव्याधाः सङ्गैरङ्गीकृतं नरम् ॥ १११ ॥ सङ्गैर्धनधान्यहिरण्यादिपरिग्रहैरङ्गीकृतं वशीकृतं यथा बहुपरिग्रहं कान्तारगतं पुरुषं चौरा मुष्णन्ति तथा संसारकान्तारगतं विषयाः शब्दादयः संयम सर्वस्वापहारेण मुष्णन्ति निर्द्धनीकुर्वन्ति । यथा वा बहुपरिग्रहं नष्टुमशक्नुवन्तं दीप्तो दवाग्निर्दहति तथा संसारकान्तारगतं मन्मथाग्निचिन्तादिना दशप्रकारेण विकारेण ददत्युपतापयति । यथा वा बहुपरिग्रहं कान्तारगतं व्याधा लुब्धका धनशरीरलोमेन रुन्धन्ति पलायितुमपि न ददति, तथा भवकान्तारगतं वनिताः कामिन्यो धनार्थिन्यः शरीरभोगार्थिन्यश्च स्वातन्त्र्यवृत्तिनिषेधेन रुन्धन्ति । अपि च बहुनापि परिग्रहेण काङ्क्षावतां न तृप्तिः सम्भवति अपि त्वसन्तोष एव वर्द्धते । यन्मुनयः -- सुवरुपस्सय पच्वया भवे सिया हु केलाससमा असङ्ख्या । नरस्स लुद्धस्स न तेहि किंचि इच्छा हु आगाससमा अति ।। १ ।। ( १ ) सुवर्णरूप्यस्य च पर्वता भवे स्युः खलु कैलाससमा असङ्ख्यकाः । नरस्य लुब्धस्य न तैः किञ्चित् इच्छा खलु आकाशसमाऽनन्ति ॥ १ ॥ For Personal & Private Use Only 4-08-0 द्वितीय: प्रकाश: । ॥ १४४ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy