SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ चतुर्थः योगशाखम् प्रकाशा सव्वे मारेहत्ति वा सो किण्हलेसपरिणामो । एवं कमेण सेसा जा चरमो सुक्कलेसाए ॥१०॥ एतास्वाद्यास्तिस्रोप्रशस्ताः, उत्तराः प्रशस्ताः एताश्च मनुष्याणां परिवर्तमाना भवन्ति । ततश्च यदा उत्तरास्तिस्र प्रात्मनो भवन्ति तदा विशुद्धिरित्याख्यायते । यदा चैता मरणकाले भवन्ति, तदा तदनुरूपासु गतिध्वात्मा प्रयाति । तत्र कृष्णनीलकापोतलेश्यापरिणतो नरकेषु तिर्यक्षु चोत्पद्यते । पीतपद्मशुक्ललेश्यापरिणतस्तु मनुष्येषु देवेषु चोत्पद्यते । यदाहुर्भगवन्तः-" जलसे मरइ तन्नेसेसु उववजइ ।" लौकिकास्त्वाहुः "अन्ते च भरतश्रेष्ठ ! या मतिः सा गतिर्नृणामिति"। अत्र यदि मतिश्चेतनामात्रं तदा या मतिः सा गतिरिति HI कि केन संगतम् ? । अथाशुद्धतमादिपरिणामयुक्ता मतियाख्यायते तीदमेव पारमर्ष वचनं साध्वित्यलं प्रसङ्गेन । एवं तावदशुद्धलेश्यात्यागेन विशुद्धलेश्यापरिग्रहेण च मनसः शुद्धिरुक्ता ॥४४॥ इदानीं मनःशुद्धिनिमित्तमीपत्करमुपायान्तरमुपदिशतिमनःशुद्धथै च कर्तव्यो रागद्वेषविनिर्जयः। कालुष्यं येन हित्वात्मा स्वस्वरूपेऽवतिष्ठते॥४५॥ मनसो भावमनस आत्मरूपस्य शुद्धिहेतवे कर्तव्यो रागद्वेषयोः प्रीत्यप्रीत्यात्मकयोर्विनिर्जयो निरोधः, उदितयोर्विफलीकरणेन अनुदितयोश्चानुत्पादनेन । तथा सति किं स्यात् ? कालुष्यमशुद्धत्वं हित्वा आत्मा भावमनोरूपः स्वकीये स्वरूपे परमशुद्धिलक्षणेऽवतिष्ठते स्थिरो भवति ॥ ४५ ॥ (१) सर्वान् मारयतेति वर्तते स कृष्णलेश्यापरिणामः । एवं क्रमेण शेषा यावच्चरमः शुक्ललेश्यायाम् ॥ १० ॥ (२) यल्लेश्यो म्रियते तासु लेश्यासु उत्पद्यते । ॥२३॥ in Education Intel For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy