________________
अथ राग-द्वेषयोर्जयत्वं श्लोकत्रयेणाहआत्मायत्तमपि स्वान्तं कुर्वतामत्र योगिनाम् । रागादिभिः समाक्रम्य परायत्तं विधीयते ॥४६
आत्मायचमपि आत्मनि निमग्नमपि खान्तं मनः कुर्वतां योगिनामत्र जगति रागादिभी रागद्वेषाभ्यां तदविनाभूतेन च मोहेन समाक्रम्य रक्तं द्विष्टं मूढं च कृत्वा परायत्तमात्मनोऽनधीनं क्रियते ॥ ४६ ॥ तथारक्ष्यमाणमपि स्वान्तं समादायमनागमिषम्। पिशाचा इव रागाद्याश्छलयन्ति मुहुर्मुहुः॥४७॥
रक्ष्यमाणमपि गोप्यमानमपि यमनियमादिभिर्मन्त्रतन्त्रप्रायैः स्वान्तं भावमनः समादाय पुरस्कृत्य मनाग् मिषं स्वल्पं छलं प्रमादरूपं, छलयन्ति-आत्मवशं कुर्वन्ति | क एते ? रागादयः । क इव ? पिशाचा इव । मुहुर्मुहुरिति यदा यदा प्रमादलेशोऽपि भवति तदा तदा छलयन्ति । यथा हि पिशाचा मन्त्रादिकृतरचमपि साधक छलं प्राप्यात्मवशं कुर्वन्ति, तथा रागादयोऽपि योगिमन इति ॥ ४७ ।। तथारागादितिमिरध्वस्तज्ञानेन मनसा जनः । अन्धेनान्ध इवाकृष्टः पात्यते नरकावटे॥४८॥
रागादय एव सम्यग्दर्शनविघातहेतुत्वात तिमिरमणोविप्लवः तेन ध्वस्तं ज्ञानं तवालोको यस्य तेन तथाविधेन मनसा आकृष्टो जनो नरकावटे नरककूपे पात्यते । केन क इव ? अन्धेनान्ध इव । रागादिभिरन्धीकृतेन मनसा जनोऽप्यन्धः, तस्यैव मार्गदर्शकत्वात् । ततो यथाज्धेनान्धः समाकृष्यावटे पात्यते तथाऽन्धेन मनसा अन्धो जनो नरकावटे पात्यते । अत्रान्तरश्लोकाः
Jain Education intential
For Personal & Private Use Only
I www.jainelibrary.org