SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् चतुर्थः प्रकाशः। ॥ २६४॥ द्रव्यादिषु रतिप्रीती राग इत्यभिधीयते । तेष्वेवारतिमप्रीतिं चाहुढेष मनीषिणः ॥१॥ उभावेतो दृढतरं बन्धनं सर्वजन्मिनाम् । सर्वदुःखानोकहानां मूलकन्दौ प्रकीर्तितौ ॥ २॥ कः सुखे विस्मयस्मेरो दुःखे कः कृपणो भवेत् ? । मोक्षं को नाप्नुयाद् रागद्वेषौ स्यातां न चेदिह ॥ ३॥ रागेण ह्यविनाभावी द्वेषो द्वेषेण चेतरः । तयोरेकतरत्यागे परित्यक्तावुभावपि ॥४॥दोषाः स्मरप्रभृतयोरागस्य परिचारकाःमिथ्याभिमानप्रमुखा द्वेषस्य तु परिच्छदः ॥॥ तयोर्मोहः पिता बीजं नायकः परमेश्वरः । ताभ्यामभिन्नस्तद्रक्ष्यः सर्वदोपपितामहः॥६॥ एवमेते त्रयो दोषा नातो दोषान्तरं कचित् । तैरमी जन्तवः सर्वे भ्रम्यन्ते भववारिधौ ॥ ७॥ स्वभावेन हि जीवोऽयं स्फटिकोपलनिर्मलः । उपाधिभूतैरेतैस्तु तादात्म्येनावभासते ॥८॥ अराजकमहो! विश्वं यदेभिः पश्यतोहरैः । हियते ज्ञानसर्वस्खं स्वरूपमपि जन्मिनाम् ॥ 8 ॥ ये जन्तवो निगोदेषु येऽपि चासनमुक्तयः । सर्वत्रास्पृष्टकरुणा पतत्येषां पताकिनी ॥ १० ।। मुक्त्या वैरं किमेतेषां मुक्तिकामैः सहाथवा । येनोभयसमायोगस्तैर्भवन् प्रतिषिध्यते ॥ ११ ॥ दोषक्षयक्षमाणां हि किमुपेक्षा क्षमार्हताम् । जगद्दाहकरं यन शान्तं दोषप्रदीपनम् ॥ १२॥ व्याघ्रव्यालजलाग्निभ्यो न बिभेति तथा मुनिः। लोकद्वयापकारिभ्यो रागादिभ्यो भृशं यथा ॥ १३ ॥ वातिसंकटमहो ! योगिभिः समुपाश्रितम् । रागद्वेषौ व्याघ्रसिंही पार्श्वतो यस्य तिष्ठतः ॥ १४ ॥४८॥ __ अथ रागद्वेषजयोपायमुपदिशतिअस्ततन्द्ररतः पुंभिनिर्वाणपदकाक्षिभिः । विधातव्यः समत्वेन रागद्वेषद्विषजयः ॥ ४९ ॥ यत एवंविधौ रागद्वेषौ, अतः कारणादस्ततन्द्रनिरस्तप्रमादैः पुंभिः पुरुषधर्मोपेतैर्योगिभिः, किंविशिष्टैः ? ॥२६४॥ in Education intematon For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy